SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०८] [ उत्तराध्ययनसूत्रे 'जो कारवेइ जिणपडिमं, जिणाण जियरागदोसमोहाणं । सो पावेइ अन्नभवे, सुहजणणं धम्मवररयणं ॥ १ ॥ अन्यच्च `दारिद्दं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ । अवमाणरोयसोआ, न हुंति जिणबिबकारीणं ॥ २ ॥ ततः स विद्युन्माली महाहिमवच्छिखराद्गोशीर्षचन्दनदारु छेदयित्वा श्रीवर्धमानस्वामिप्रतिमां निर्वर्तितवान् । कियन्तं कालं प्रतिमा पूजिता, तत आयुः क्षये तां च मञ्जूषायां क्षिप्तवान् । तस्मिन्नवसरे षण्मासान् यावदितस्ततो भ्रमद्वाहनं वायुभिरास्फाल्यमानं स विलोकितवान् । तत्र गत्वा चासौ तमुत्पातमुपशामितवान्, सांयात्रिकाणां च तां मञ्जूषां दत्तवान्, भणितवांश्च देवाधिदेवप्रतिमा चात्रास्ति । ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः । तत्रोदायनराजा तापसभक्तस्तस्य सा मञ्जूषा दत्ता, कथितं च सुरवचनम्, मिलितश्च तत्र ब्राह्मणादिकभूरिलोको । भणति च गोविन्दाय नम इत्युक्ते मञ्जूषा नोद्घटिता । केचिद् भणन्त्यत्र देवाधिदेवश्चतुर्मुखो ब्रह्मास्ति । अन्ये केचिद्वदन्त्यत्र चतुर्भुजो विष्णुरेवास्ति । केचिद्भणन्त्यत्र महेश्वरो देवाधिदेवोऽस्ति । अस्मिन्नवसरे तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री प्रभावतीनाम्नी श्रमणोपासिका तत्रायाता । तया तस्या मञ्जूषायाः पूजां कृत्वैवं भणितम् - 1 'गयरागदोसमोहो, सव्वन्नू अट्ठपाडिहेरसंजुत्तो । देवाहिदेवगुरुउ अइरा मे दंसणं देउ ॥ १ ॥ एवमुक्त्वा तया मञ्जुषायां हस्तेन परशुप्रहारो दत्तः, उद्घटिता सा मञ्जूषा, तस्यां दृष्टाऽतीवसुन्दराऽम्लानपुष्पमालालङ्कृता श्रीवर्धमानस्वामिप्रतिमा, जिनशासनोन्नति: जाता । अतिवानन्दिता प्रभावत्येवं बभाण । *सवन्नू सोमदंसण, अपुण्णभव भवियजणमणानंद । जय चिंतामणि जगगुरु जय जय जिण वीर अकलंको ॥ १ ॥ तत्र प्रभावत्याऽन्तःपुरमध्ये चैत्यगृहं कारितं, तत्रेयं प्रतिमा स्थापिता । तां च त्रिकालं सा पवित्रा पूजयति । अन्यदा प्रभावती राज्ञी तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां १ यः कारापयति जिनप्रतिमां, जिनानां जितरागद्वेषमोहानाम् । स प्राप्नोति अन्यभवे, शुभजननं धर्मवररत्नम् ॥ १ ॥ २ दारिद्रयं दौर्भाग्यं, कुजाति- कुशरीर - कुगति- कुमतयः । अपमानरोगशोका-न भवन्ति जिनबिम्बकारीनाम् ॥ २ ॥ ३ गत राग-द्वेष मोहः, सर्वज्ञोऽष्टप्रातिहार्यसंयुक्तः । देवाधिदेवगुरुकः, अचिरान्मे दर्शनं देहि ॥ १ ॥ ४ सर्वज्ञः सौम्यदर्शनः, अपुर्नभवः भविकजनमनः- आनन्दः । जय चिन्तामणि जगद्गुरु, जय जय जिनवीर ! अकलङ्कः ॥ १ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy