________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३०७ तत्पटहः स्पृष्टः, कुमारनन्दिना तस्य कोटिधनं दत्तम् । स्थविरोऽपि तद्धनं पुत्राणां दत्वा कुमारनन्दिना सह यानपात्रमारूढः समुद्रमध्ये प्रविष्टः । यावद्दूरे गतस्तावदेकं वटं दृष्ट्वान् । स्थविर उवाच तस्य वटस्याध इदं वाहनं निर्गमिष्यति, तत्र जलावर्तोऽस्तिततः वाहनं भक्ष्यति, त्वं त्वेतद्वटशाखामाश्रयेः, वटेऽत्र पञ्चशैलद्वीपाद्भा-रण्डपक्षिणः समायास्यन्ति ।। सन्ध्यायां तच्चरणेषु स्वं वपुः स्ववस्त्रेण दृढं बध्नीयाः, ते च प्रभाते इत उड्डीनाः पञ्चशैलं यास्यन्ति, त्वमपि तैः समं पञ्चशैलं गच्छेः, स्थविरेणैवमुच्य-मानेन तद्वाहनं वटाधो गतम् । कुमारनन्दिना वटशाखावलम्बनं कृतम्, भग्नं च तद्वाहनम् । कुमारनन्दी तु भारण्डपक्षिचरणावलम्बेन पञ्चशैले गतः, हासाप्रहासाभ्यां दृष्टः । उक्तं च तवैतेन शरीरेण नावाभ्यां भोगो विधीयते । स्वनगरे गत्वाङ्गष्ठत आरभ्य मस्तकं यावज्ज्वलनेन स्वं शरीरं दह । यथा पञ्चशैलाधीशो भूत्वाऽस्मद्भोगेहां पूर्णीकुरु । तेनोक्तं तत्राहं कथं यामि ? ताभ्यां करतले समुत्पाट्य तन्नगरोद्याने स मुक्तः । ततो लोकस्तं पृच्छति, किं त्वया तत्राश्चर्यं दृष्टम् ? स भणति, दृष्टं श्रुतमनुभूतं पञ्चशैलं द्वीपं मया, यत्र प्रशस्ते हासाप्रहासाभिधे देव्यौ स्तः । अथात्र कुमारनन्दिना स्वाङ्गष्ठेऽग्नि मोचयित्वा मस्तकं यावत् स्वशरीरं ज्वाल-यितुमारब्धम्, तदा मित्रेणायं वारितः । भो मित्र ! तवेदं कापुरुषजनोचितं चेष्टितं न युक्तम् । महानुभाव ! दुर्लभं मनुष्यजन्म मा हारय । तुच्छमिदं भोगसुखमस्ति । किं च यद्यपि त्वं भोगार्थी तथापि सद्धर्मानुष्ठानमेव कुरु । यत उक्तं
"धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो।
सग्गापवग्गसंगम-हेऊ जिणदेसिओ धम्मो ॥ १ ॥" इत्यादिशिक्षावादैमित्रेण स वार्यमाणोऽपि इङ्गिनीमरणेन मृतः पञ्चशैलाधिपतिर्जातः । तन्मित्रस्य श्रावकस्य महान् खेदो जातः ।अहो ! भोगकार्ये जना इत्थं क्लिश्यन्ति । जानन्तोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म इति स श्रावकः प्रव्रजितः । क्रमेण कालं कृत्वाऽच्युतदेवलोके समुत्पन्नः । अवधिना स स्ववृत्तान्तं जानाति स्म । अन्यदा नन्दीश्वरयात्रार्थं सर्वे देवेन्द्राश्चलिताः ।स श्रावकदेवोऽप्यच्युतेन्द्रेण समं चलितः तदा पञ्चशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरति । हासाप्रहासाभ्यामक्तमियं पञ्चशैलदीपवासिनः स्थिति:- यनन्दीश्वरदीप-यात्रार्थं चलितानां देवेन्द्राणां परः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति । ततस्त्वं खेदं मा कुरु ।गललग्नमिमं पटहं वादयन् गीतानि गायन्तीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि । ततः स तथा कुर्वन्नन्दीश्वरद्वीपोद्देशेन चलितः । श्रावकदेवस्तं सखेदं पटहं वादयन्तं दृष्ट्वोपयोगेनोपलक्षितवान् । भणति च भो त्वं मां जानासि ?स भणति कः शक्रादिदेवान्न जानाति । ततस्तं श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयति स्म।सर्व पूर्ववत्तान्तमाख्याति । ततः संवेगमापन्नः स देवो भणति, इदानीमहं किं करोमि ? श्रावकदेवो भणति श्रीवर्धमानस्वामिनः प्रतिमां कुरु । यथा तव सम्यक्त्वं सुस्थिरं भवति । यत उक्तं१धनदो धनार्थीनां, कामार्थीनां च सर्वकामकरः । स्वर्गापवर्गसङ्गम - हेत जिनदेशितो धर्मः॥१॥