________________
३०६]
[उत्तराध्ययनसूत्रे एए नरिंदवसहा, निखंता जिणसासणे ।
पुत्ते रज्जे ठवेऊणं, सामन्ने पज्जुवट्ठिया ॥ ४७ ॥ हे मुने ! करकण्डू राजा कलिङ्गेषु देशेष्वभूदित्यध्याहारः । च पुनः पाञ्चालेषु देशेषु द्विमुखो नृपोऽभूत्, विदेहेषु देशेषु नमी राजाभूत्, च पुनर्गन्धारेषु-गन्धारनामदेशेषु निर्गतिनामा राजाभूत् । एते चत्वारः करकण्डू-द्विमुख-नमि-निर्गतिनामानो नरेन्द्रवृषभाराजमख्याः पत्रान राज्ये स्थापयित्वा पश्राज्जिनशासने-जिनाजायां श्रामण्ये-चारित्रे पर्यपस्थिताः, चारि-त्रयोग्यक्रियानष्ठानतत्पराः सन्तो निष्क्रान्ताः-संसारान्निःसताः, भवभ्रमणाद्विरता आसन्नित्य-ध्याहारः, सिद्धिः प्राप्ता इति भावः । एतेषां चतुर्णा प्रत्येकबुद्धानां कथा प्रसङ्गतः पूर्वं नमेरध्ययनतो ज्ञेया ॥ ४६ ॥ ४७ ॥
सोवीररायवसभो, चइत्ताण मुणी चरे ।
उदायणो पव्वइओ, पत्तो गइमणुत्तरं ॥ ४८ ॥ सौवीरराजवृषभः, सौवीराणां देशानां राजा सौवीरराजः, स चासौ वृषभश्च सौवीरराजवृषभो राज्यभारधरणसमर्थः सौवीरदेशेषु भूपमुख्यः एतादृश उदायननामा राजा वीतभयपत्तनाधीशो मौनं-मुनिधर्ममाचरत् । किं कृत्वा ? राज्यं परिहत्य । स चोदायनः प्रव्रजितः सन्ननुत्तरां-प्रधानां गतिं प्राप्तः ॥ ४८ ॥
अत्रोदायनभूपदृष्टान्तः ।
भरतक्षेत्रे सौवीरदेशे वीतभयनामनगरे उदायनो नाम राजा, तस्य प्रभावती राज्ञी, तयोर्येष्ठपुत्रोऽभीचिनामाभवत् । तस्य भागीनेयः केशीनामाभूत् । स उदायनराजा सिन्धुसौवीरप्रमुखषोडशजनपदानाम्, वीतभयप्रमुखत्रिशतत्रिषष्ठिनगराणां, महासेनप्रमुखाणां दशराज्ञां बद्धमुकुटानां छत्राणां चामराणां चैश्वर्यं पालयन्नस्ति ।
___ इतश्चम्पायां नगर्यां कुमारनन्दी नाम सुवर्णकारोऽस्ति । स च स्त्रीलम्पटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति वा, तत्र तत्र पञ्चशतसुवर्णानि दत्वा तां परिणयति । एवं च तेन पञ्चशतकन्याः परिणीताः, एकस्तम्भं प्रासादं कारयित्वा स ताभिः समं क्रीडति । तस्य च मित्रं नागिलनामा श्रावकोऽस्ति । अथ पञ्चशैलद्वीपवास्तव्यहासाप्रहासाव्यन्ती स्तः, तयोर्भर्ता विद्युन्मालिनामदेवोऽस्ति, सोऽन्यदा च्युतः । ताभ्यां चिन्तितं कमपि व्युद्ग्राहयावः । स आवयोर्भर्ता भवति । स्वयोग्यपुरुष-गवेषणायेतस्ततो व्रजन्तीभ्यां ताभ्यां चम्पानगाँ कुमारनन्दी सुवर्णकारः पञ्चशतस्त्रीपरिवृतो दृष्टः । ताभ्यां चिन्तितमेष स्त्रीलम्पटः सुखेन व्युद्ग्राहयिष्यते । कुमारनन्दी भणति के भवन्त्यौ ? कुतः समायाते ? ते आहतुरावां हासाप्रहासादेव्यौ, तद्पमोहितः कुमारनन्दी सुवर्णकारस्ते देव्यौ भोगार्थ प्रार्थितवान् । ताभ्यां भणितम् यद्यस्मद्भोगकार्यं तदा पञ्चशैल-द्वीपं समागच्छेः । एवं भणित्वा ते देव्यावुत्पतिते, गते च स्वस्थानम् । अथ स राज्ञः सुवर्णं दत्वा पटहं वादयति स्म, कुमारनन्दिसुवर्णकारं यः पञ्चशैलद्वीपं नयति तस्य स धनकोटिं ददाति । एकेन स्थविरेण