________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ ३०५
नृत्यन्तीभिर्विलासिनीभिः पोषितनेत्ररसो गजेन्द्रारूढो दशार्णभद्रभूपतिर्भगवतो वन्दनार्थमायातः । विशुद्धभावेन भगवान् वन्दितः । राजा मदहरश्च हर्षं प्राप्तौ । अत्रान्तरे शक्रेण चिन्तितं मत्कृत्या महाविभूत्याऽसौ दशार्णभद्रः प्रतिबोधं यास्यतीति । शक्र ईदृशीं विभूति विकुर्वितवान् । तथाहि - ऐरावणहस्तिनोऽष्टौ दन्ता विकुर्विताः, दन्ते दन्तेऽष्टाष्ट पुष्करिण्यो विकुर्विताः । पुष्करिण्यां पुष्करिण्यामष्टावष्टौ पद्मानि पद्म पद्मेऽष्टाष्ट पत्राणि, पत्रे पत्रे द्वात्रिंशद्बद्धनाट्यानि । अनया विभूत्या ऐरावणारूढेन शक्रेण प्रदक्षिणीकृत्य भगवान् वन्दितः । तं तादृशं दृष्ट्वा दशार्णभद्रेण चिन्तितमहो खलु तुच्छोऽहम्, यस्तुच्छ - विभूत्या गर्वं कृतवान् यत उक्तम्
'अदिट्ठभद्दा थोवेणवि, हुंति उत्ताणाणीया ।
णच्चइ उत्तालमुहो हु, मूसगो वीहिमासज्ज ॥ १ ॥
अनेन शक्रेण प्राग्भवे शुद्धो धर्मः कृतः तत ईदृशी ऋद्धिर्लब्धा, ततोऽहमपि तमेव धर्मं करोमि, किं ममात्र विषादेन ? उक्तं च
समसंख्यावयवः सन्, पुरुषः पुरुषं किमन्यमभ्येति । पुण्यैरधिकतरं चेन्ननु, सोऽपि करोतु तान्येव ॥ १ ॥
इत्यादिसंवेगभावनया प्रतिबुद्धः क्षयोपशम-प्राप्तचारित्रमोहनीयो भगवन्तं प्रत्येवं दशार्णभद्रोऽवादीत्-भगवन् ! भवचारकादहं निर्विण्णोऽस्मि । ततश्चारित्रप्रदानेनानुग्रहं मम कुरु । भगवता तदानीमेव मदहरेण समं स दशार्णभद्रो दीक्षितः, शक्रेण तदा वन्दितः, उक्तं च श्रमणमार्गग्रहणेन त्वयैव जितम्, येनेदृशी ऋद्धिः सहसा परित्यक्ता । पूर्वं त्वयाऽभिमानग्रस्तेन द्रव्यवन्दनं कृतमधुना तु भाववन्दम् कृतमिति त्वमेव धन्यो नाहमिति दशार्णभदमुनेः प्रशंसां कृत्वा शक्रः स्वस्थानं गतवानिति दशार्ण भददृष्टान्तः ॥ ११ ॥
नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ ।
चइऊण गेहं वइदेही, सामने पज्जुवट्ठिओ ॥ ४५ ॥
पुनर्हे मुने ! विदेहेषु देशेषु भवो वैदेही, विदेहदेशस्वामी नमिनामा नृपो गेहं गृहवासं त्यक्त्वा श्रामण्यं साधुधर्मं पर्युपस्थितः, चारित्रयोग्यानुष्ठानं प्रत्युद्यतोऽभूदित्यर्थः । पुनः समुनिः साक्षाद्ब्राह्मणरूपेण शक्रेण प्रेरितः सन् ज्ञानचर्यायां परीक्षितः सन्नात्मानं 'नमेइ' इति नये स्थापयति, क्रोधादिकषायरहितो भवतीत्यर्थं ॥ ४५ ॥
अथ द्वाभ्यां गाथाभ्यां चतुर्णां प्रत्येकबुद्धानामेकसमये सिद्धानां नामान्याह-करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो ।
नमीराया विदेहेसु, गंधारेसु य निगई ॥ ४६ ॥
१ अदृष्टभदा नीचाः स्तोकेनाप्युत्तानी भवन्ती माद्यतीत्यर्थः,
हु इति वितर्के, मूषको व्रीहिमासाद्योत्तालमुख उच्चैर्मुखो नृत्यति ।