SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०४] [ उत्तराध्ययनसूत्रे तया परिवेषित क्षैरेय्या भृतं भाजनम्, यावदसौ भुङ्क्ते, तावतारक्षकस्तत्रायातोऽवदत् कपाटमुद्घाटयेति । सा नटपुरुषमुवाच, त्वं तिलगृहोदरे प्रविश, यावदेनं निवर्तयामि । स तिलगृहोदरे प्रविष्टः, बुभुक्षितः सन् कोणस्थांस्तिलान् फूत्कृत्य फूत्कृत्य खादति । आगतस्तलारक्षः कपाटं पिधाय । क्षैरेयीभृतं पात्रं दृष्ट्वा स भोक्तुमुपविष्टः, यावज्जेमति तावत्तस्याः पतिद्वारे समायातः । तयोक्तं तलारक्षस्य, शीघ्रमुत्तिष्ठ । प्रविशास्मिंस्तिलगृहोदरे, परं दूरे न गन्तव्यम्, , कोणे सर्पस्तिष्ठति, त्वया तत्र प्रदेशे न गन्तव्यम् । प्रविष्टस्तलारक्षस्तिलगृहोदरे, पतिस्तत्रायातः क्षैरेयीपात्रं दृष्ट्वा तेन पृष्टं किमेतत् ? तयोक्तं बुभुक्षितास्मीति जेमामि । स उवाच त्वं तिष्ठ । अहं पथश्रान्तत्वाद्विशेषतो बुभुक्षितोऽस्मीति प्रथमं जेमामि । तयोक्तमद्याष्टमी वर्तते, कथमस्नातो जेमसि ? तेनोक्तं त्वं स्नातासीति तव स्नानेन मम स्नानं जातमिति प्रोच्य स भोक्तुमुपविष्टः । इतश्च तिलभक्षेकनटफूत्कारश्रवणे सर्पोऽयमिति फूत्करोतीति भीतस्तलारक्षस्तिलगृहोदरान्निर्गतो नष्टः । ततोऽयमेवावसर इति कृत्वा स्त्रीवेषधरो नटोऽपि नष्टः । पत्या पृष्ट सा स्त्री किमेतत् ? तयोक्तं मया त्वं साम्प्रतमेव वारितो यदद्याष्टम्यां त्वमस्नातो मा भोजनं कुरु । त्वया चास्नातेनाद्य भोजनं कर्तुमारब्धम्, अतस्त्वद्गृहे सदा वसन्ताविमौ पार्वतीमहेश्वरौ नष्ट्वा गतौ । मदहर उवाच - हा ! दुष्ट कृतं मया, एवं पश्चात्तापं कुर्वन् पुनस्त सवाच, कोप्यस्त्युपायो ? यदेतौ पुनरायातः ? सोवाच यदि न्यायेन वित्तमुपाये पूजां कुर्यास्तदा पुनरेतौ तव गृहे समायास्यतः । ततो गतो मदहरो देशान्तरे, दशार्णदेशे ईक्षुवाटककर्मणि लग्नः, दशग' द्याणकसुवर्णं लब्धम्, तथाप्यल्पमिति कृत्वा स न तुष्टिं प्राप्तो इतस्ततो भ्रमन् स एकदाटव्यां प्रविष्टः, पिप्पलतरुमूले विश्रामं गृह्णाति । अत्रान्तरेऽश्वापहृतो दशार्णभद्रस्तत्रायातः, तं दृष्ट्वा राज्ञा पृष्टम्, कस्त्वं ? किमर्थमत्रायातः ? स उवाच यथास्थितवृत्तान्तम् । राज्ञा चिन्तितमसौ स्त्रिया विप्रतारितः परदेशे भ्रमन्नस्ति । ततस्तस्य स्त्रीचरितमुक्त्वा तं च स्वगृहे नीत्वा भोजनादिचिन्तनं विहितम् । राज्ञा चिन्तितमहो असत्यदेवेऽपीश्वरादौ कीदृशी भक्तिर्वर्तते ? मया सत्यदेवेऽपि श्रीमहावीरे विद्यमानेऽपि तादृशं भक्तिप्रपञ्चनं न विहितमिति राजा यावच्चिन्तयति तावदेकप्रतिहारपुरुषेण राज्ञोऽग्रे एवमुक्तं भगवान् श्रीमहावीरः समायातः । राजा परितुष्टंश्चिन्तयति, यदि नामैष मदहरो विशिष्टविवेकरहितोऽपि निजदेवपूजासम्पादनार्थमेवं परिक्लिश्यते, ततोऽस्माभिरीदृशैः सारासारविवेचनविचक्षणैः समग्रसामग्ग्रा त्रिभुवनचिन्तामणिकल्पस्य श्रीमहावीरस्य विशेषेण पूजा कार्येति । ततः कल्ये ऽहं सर्वद्धर्या तथा महावीरं वन्दिष्ये, यथा केनाप्येवं न वन्दितः पूर्वं । ततो द्वितीयदिवसे कृतप्रभातकृत्यः स्नातविलिप्तालङ्कृतदेहः स्फाररूपयौवनलावण्यनेपथ्ययुक्तः सर्वाङ्गोपाङ्गालङ्कृतया चतुरङ्गिण्या सेनया सहितो बहुभिर्मन्त्रिसामन्तैः । श्रेष्ठसार्थवाहैश्च परिवृतः, भम्भादिवादित्रश्रेणिबधिरितदिगन्तरालो गन्धर्वैर्गीयमानगुणो १ गदीयाणा अथवा रति ।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy