________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[३०३ "मासैरष्टभिरा वा, पूर्वेण वयसा यथा। तत्कर्तव्यं मनुष्येण, यथान्ते सुखमेधते॥१॥" ।
एवमादि परिभाव्य पुत्रं राज्ये निवेश्य स निष्क्रान्तः, उत्पन्नकेवलश्च सिद्धि गतः । पञ्चदशधनुरुच्चत्वं दशवर्षसहस्रायुश्च सञ्जातमिति हरिषेणचक्रिदृष्टान्तः ९॥४२॥
अनिओ रायसहस्सेहि, सुपरिच्चाइ दमं चरे।
जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ जयनामैकादशश्चक्री जिनाख्यातं - जिनोक्तं धर्मं चरित्वा चानुत्तरां गति प्राप्तः । कीदृशो जयनामा ? राजसहस्रैरन्वितो - नृपसहस्रेण परिवृतो जैनी दीक्षामचरत् । पुनः कीदृशो जयनामा ? सुपरित्यागी-सम्यक् परित्यागी ॥४३॥
अत्र जयनामाचक्रवर्तिदृष्टान्त:
राजगृहे नगरे वप्राया राज्याः कुक्षौ चतुर्दशस्वप्जसूचितो जयनामा पुत्रो जातः । क्रमेण संसाधितभरतश्चक्री जातः । राजश्रियमनुभवन् भोगेभ्यो विरक्तो जातः, एवं च
चिन्तितवान्
"सुचिरमपि उषित्वा, स्यात् प्रियैर्विप्रयोगः । सुचिरमपि चरित्वा, नास्ति भोगेषु तृप्तिः ॥ सुचिरमपि सुपुष्टं, याति नाशं शरीरं ।
सुचिरमपि विचिन्त्यो, धर्म एकः सहायः ॥ १ ॥" एवं संवेगमुपागतो निष्क्रान्तोऽनुक्रमेण सिद्धः। द्वादशधनुर्देहमानो वर्षसहस्रायुश्चैष आसीदिति जयचक्रीदृष्टान्तः ॥१०॥
दसन्नरज्जं मुदियं, चइत्ताणं मुणी चरे।
दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥ ४४ ॥ दशार्णभद्रो राजा साक्षात् शक्रेण चोदितः-प्रेरितः सन् निष्क्रान्तः, गृहस्थावस्थातो निःसृतः । पुनर्मांनी सन्नचरत्, मुनेः कर्म मौनम्, मौनमस्यास्तीति मौनी, मुनिर्भूत्वा विहारमकरोत् । किं कृत्वा ? दशार्णराज्यं त्यक्त्वा, दशार्णानां देशानां राज्यं दशार्णराज्यम् कीदृशं दशार्णराज्यं ? मुदितं - समृद्धम् ॥ ४४ ॥
अत्र दशार्णभद्रदृष्टान्तः
अस्ति विराटदेशे धन्यपुरं नाम सन्निवेशः, तत्रैको मदहरनामा महत्तरपुत्रोऽस्ति, तस्य भार्यादुःशीला नगरारक्षकेण समं चौर्यरतिं कुर्वन्त्यस्ति । अन्यदा तत्र सन्निवेशे नटैर्नाट्यं प्रारब्धं तत्रैको नर्तकः स्त्रीवेषं कृत्वा नृत्यन्नस्ति । घनो लोको दर्शनार्थं मिलितोऽस्ति, सापि तत्र गतास्ति । सा स्त्रीरूपधरं तं नर्तकं प्रेक्ष्य पुरुषं च ज्ञात्वा कामविह्वला जाता। एवं तत्पुरुषं प्राह-यद्यसावनेन वेषेण मद्गृहे समागत्य मया समं रमते, तदाहमस्मै अष्टोत्तरशतद्रव्यं ददामि । तेन प्रतिपन्नम्, भणितं च त्वं याहि । एष तव पृष्ठौ त्वरितमेव समायास्यामि । एषोऽपि तत्पृष्ठौ तद्गृहे गतः तया पादशौचनं कृतम्, स भोक्तुमुपविष्टः ।