________________
३०२]
[ उत्तराध्ययनसूत्रे यावन्मुनयोऽत्र तिष्ठन्ति । नमुचिना भणितम्, किमत्र पुनः पुनर्वचनप्रयासेन ? पञ्चदिवसान् यावन्मुनयोऽत्र तिष्ठन्तु, विष्णुना भणितं, तवोद्याने मुनयस्तिष्ठन्तु । ततः सञ्जातामर्षण नमुचिनैवं भणितम्-सर्वपाखण्डाधामैर्भवद्भिर्न मद्राज्ये स्थेयम्, मद्राज्यं त्वरितं त्यजत । यदि जीवितेन कार्य । ततः समुत्पन्नकोपानलेन विष्णुना भणितम्-तथापि त्रयाणां पादानां स्थानं देहि । ततो भणितं नमुचिना, दत्तं त्रिपदीस्थानम्, परं यं त्रिपद्या बहिर्दक्ष्यामि तस्य शिरश्छेदं करिष्यामि । ततः स विष्णुकुमारः कृतनानाविधरूपो वृद्धि गच्छन् क्रमेण योजनलक्षप्रमाणरूपो जातः ।क्रमाभ्यां दर्दरं कुर्वन् ग्रामाकरनगरसागराकीर्णां भूमिमकम्पयत्, शिखराणि पातयति स्म । त्रिभुवने क्षोभं कुर्वन् स मुनिः शक्रेण ज्ञातः तस्य कोपोपशान्तये शक्रेण गायनदेव्यः प्रेषिताः । ताश्चेवं गायन्ति स्म - 'सपर-संतावओ धम्मवणदावओ कुग्गइगमणहेउ कोवो ता ओवसमं करेसु भयवंति।"
एवमादीनि गीतानि ता वारंवारं श्रावयन्ति स्म । स मनि मचि सिंहासनात्पथिव्यां पातितवान् । दत्तपूर्वापरसमुद्रपादः स सर्वजनं भापयति स्म । ज्ञातवृत्तान्तो महापद्मश्चक्री तत्रायातः, तेन समस्तसङ्घन सुरासुरैश्च शान्तिनिमित्तं विविधोपचारैः स उपशामितः । तत्प्रभृति विष्णुकुमारस्त्रिविक्रम इति ख्यातः । उपशान्तकोपः स मुनिरालोचितः प्रतिक्रान्तः शुद्धश्चः । यत उक्तं
"२आयरिए गच्छंमि, कुलगणसंघे अ चेइअविणासे।
आलोइयपडिकंतो, सुद्धो जं निज्जरा विउला ।। १ ।।" निष्कलङ्कं श्रामण्यमनुपाल्य समुत्पन्न केवलः स विष्णुकुमारः सिद्धिं गतः । महापद्मचक्रवर्त्यपि क्रमेण दीक्षां गृहीत्वा सुगतिभागभूत् । इति महापद्मदृष्टान्तः ॥८॥
एगच्छत्तं पसाहित्ता, महिं माणनिसूरणो ।
हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ पुनर्हे मुने ! हरिषेणो मनुष्येन्द्रो हरिषेणनामा नवमश्चक्री अनुत्तरां गति-सिद्धि प्राप्तः । किं कृत्वा ? महीं पृथ्वीमेकच्छत्रां प्रसाध्य-प्रपाल्य । कीदृशो हरिषेणः ? माननिसूरणोऽहङ्कारिशत्रुमानदलनः ॥ ४२ ॥
अत्र हरिषेणदृष्टान्त:
काम्पिल्ये नगरे महाहरिराज्ञो मेरादेव्याः कुक्षौ चतुर्दशस्वप्नसूचितो हरिषेणनामा चक्रवर्ती समुत्पन्नः । क्रमेण यौवनं प्राप्तः पित्रा राज्ये स्थापितः । उत्पन्नानि चतुर्दश रत्नानि, प्रसाधितं च भरतम्, कृतपट्टाभिषेको हरिषेण उदारान् भोगान् भुञ्जन् कालं गमयति । अन्यदा लघुकर्मतया भववासाद्विरक्तः स एवं चिन्तितुं प्रवृत्तः । पूर्वकृतसुकृतकर्मवशेन मयात्रेदृशी ऋद्धिः प्राप्ता, पुनरपि परलोकहितं करोमि । उक्तं च१ स्वपरसन्तापको धर्मवनदावकः कुगतिगमनहेतुः क्रोधस्तस्मात् उपशमं कुरुत भगवन् ! इति। २ आचार्य गच्छे, कुलगणसङ्केच चैत्यविनाशे, आलोचितप्रतिक्रान्तः, शुद्धो यत् निर्जरा विपुला ॥१॥