Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 319
________________ ३१०] [उत्तराध्ययनसूत्रे दास्या स प्रतिचरितः । स नीरुग् जातः । तुष्टेन तेन तस्यै कामगुणिता गुटिका दत्ताः, कथितश्च तासां चिन्तितार्थसाधकप्रभावः ।अन्यदा सा दास्यहं सुवर्णवर्णा सुरूपा भवामीति चिन्तयित्वैकां गुटिकां भक्षितवती, सुवर्णवर्णा सुरूपा च जाता । ततस्तस्याः सुवर्णगुलिकेति नाम जातम् । - अन्यदा सा चिन्तयति भोगसुखमनुभवामि । एष उदयनराजा मम पिता, अपरे मत्तुल्याः केऽपि राजानो न सन्तीति चण्डप्रद्योतमेव मनसि कृत्वा द्वितीयां गुटिकां भक्षितवती । तदानीं तस्य चण्डप्रद्योतस्य स्वप्ने देवतया कथितम् ।वीतभयपत्तने उदायनराज्ञो दासी सुवर्णगुलिकानाम्नी सुवर्णवर्णाऽतीवरूपवती त्वद्योग्यास्ति । चण्डप्रद्योतेन सुवर्णगुलिकायाः समीपे दूतः प्रेषितः । दूतेनेकान्ते तस्या एवं कथितं चण्डप्रद्योतस्त्वामीहते । तया भणितमत्र चण्डप्रद्योतः प्रथममायातु, तं पश्यामि, पश्चाद्यथारुच्या तेन सहायास्यामि ।दूतेन गत्वा तस्या वचनं चण्डप्रद्योतस्योक्तम् ।सोऽप्यनलगिरिहस्तिनमारुह्य रात्रौ तत्रायात । दृष्टस्तया,रुचितश्च ।सा भणति-यदिमां प्रतिमा सार्धं नयसि तदाहमायामि, नान्यथेति । ततस्तेन तत्स्थानस्थापनयोग्यान्यप्रतिमा तदानीं नास्तीति तस्यां रात्रौ तत्रोषित्वा स स्वनगरे पश्चाद्गतः । तत्र तादृशीं जिनप्रतिमां कारयित्वा पुनरत्रायातस्तां प्रतिमां तत्र स्थापयित्वा मूलप्रतिमां दासी च गृहीत्वोज्जयिनी स गतः। तत्रानलगिरिणा मूत्रपुरीषे कृते, तद्गन्धेन वीतभयपत्तनसत्का हस्तिनो निर्मदा जाताः । उदायनराज्ञा तत्कारणं गवेषितम्, अनलगिरिहस्तिनः पदं दृष्टम्, उदायनेन चिन्तित स किमर्थमत्रायातः ? गृहमानुषैरुक्तं सुवर्णगुलिका न दृश्यते । राज्ञोक्तं सा चेटी चण्डप्रद्योतेन गृहीता, परं प्रतिमा विलोकयत । तैरुक्तं प्रतिमा दृश्यते, परं पुष्पाणि म्लानानि दृश्यन्ते । राज्ञा गत्वा स्वयं प्रतिमा विलोकिता, पुष्पम्लानिदर्शनेन राज्ञा ज्ञातम्, नेयं सा प्रतिमा, किन्त्वन्येति विषण्णेन राज्ञा दूतश्चण्डप्रद्योतान्तिके प्रेषितः, मम दास्या नास्ति कार्य । प्रतिमां त्वरितं प्रेषयेति दूतेन चण्डप्रद्योतस्योक्तम् । चण्डप्रद्योतः प्रतिमां नार्पयति तदा सैन्येन समं ज्येष्ठमास एवोदायनश्चलितः, यावन्मरुदेशे तत्सैन्यमायातम्, तावज्जलाप्राप्त्या तत्सैन्यं तृषाक्रान्तं व्याकुलीबभूव। _____ तदानीं राज्ञा प्रभावतीदेवश्चिन्तितः, तेन समागत्य त्रीणि पुष्कराणि कृतानि, तेषु जललाभात्सर्वं सैन्यं सुस्थं जातम् । क्रमेणोदायनराजोज्जयिनीं गतः, कथितवांश्च-भो चण्डप्रद्योत ! तव मम च साक्षायुद्धं भवतु किं नु लोकेन मारितेन । अश्वस्थेन वा त्वया मया च युद्धमङ्गीकर्तव्यम् । चण्डप्रद्योतेनोक्तं रथस्थेनैव त्वया मया च योद्धव्यम् । प्रभाते चण्डप्रद्योतः कपटं कृतवान् । स्वयमनलगिरिहस्तिनमारुह्य सङ्ग्रामाङ्गणे समायातः । उदायनस्तु स्वप्रतिज्ञानिर्वाही रथारूढः सङ्ग्रामाङ्गणे समायातः । तदानीमुदायनेन चण्डप्रद्योतस्योक्तं-त्वमसत्यप्रतिज्ञो जातः, कपटं च कृतवानसि । तथापि तव मत्तो मोक्षो नास्तीति भणतोदायनेन रथो मण्डल्यां क्षिप्तः, चण्डप्रद्योतेन तत्पृष्टावनलगिरिहस्ती वेगेन

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350