Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३०८]
[ उत्तराध्ययनसूत्रे
'जो कारवेइ जिणपडिमं, जिणाण जियरागदोसमोहाणं । सो पावेइ अन्नभवे, सुहजणणं धम्मवररयणं ॥ १ ॥ अन्यच्च
`दारिद्दं दोहग्गं, कुजाइकुसरीरकुगइकुमईओ । अवमाणरोयसोआ, न हुंति जिणबिबकारीणं ॥ २ ॥
ततः स विद्युन्माली महाहिमवच्छिखराद्गोशीर्षचन्दनदारु छेदयित्वा श्रीवर्धमानस्वामिप्रतिमां निर्वर्तितवान् । कियन्तं कालं प्रतिमा पूजिता, तत आयुः क्षये तां च मञ्जूषायां क्षिप्तवान् । तस्मिन्नवसरे षण्मासान् यावदितस्ततो भ्रमद्वाहनं वायुभिरास्फाल्यमानं स विलोकितवान् । तत्र गत्वा चासौ तमुत्पातमुपशामितवान्, सांयात्रिकाणां च तां मञ्जूषां दत्तवान्, भणितवांश्च देवाधिदेवप्रतिमा चात्रास्ति । ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः । तत्रोदायनराजा तापसभक्तस्तस्य सा मञ्जूषा दत्ता, कथितं च सुरवचनम्, मिलितश्च तत्र ब्राह्मणादिकभूरिलोको । भणति च गोविन्दाय नम इत्युक्ते मञ्जूषा नोद्घटिता । केचिद् भणन्त्यत्र देवाधिदेवश्चतुर्मुखो ब्रह्मास्ति । अन्ये केचिद्वदन्त्यत्र चतुर्भुजो विष्णुरेवास्ति । केचिद्भणन्त्यत्र महेश्वरो देवाधिदेवोऽस्ति । अस्मिन्नवसरे तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री प्रभावतीनाम्नी श्रमणोपासिका तत्रायाता । तया तस्या मञ्जूषायाः पूजां कृत्वैवं भणितम् -
1
'गयरागदोसमोहो, सव्वन्नू अट्ठपाडिहेरसंजुत्तो ।
देवाहिदेवगुरुउ अइरा मे दंसणं देउ ॥ १ ॥
एवमुक्त्वा तया मञ्जुषायां हस्तेन परशुप्रहारो दत्तः, उद्घटिता सा मञ्जूषा, तस्यां दृष्टाऽतीवसुन्दराऽम्लानपुष्पमालालङ्कृता श्रीवर्धमानस्वामिप्रतिमा, जिनशासनोन्नति: जाता । अतिवानन्दिता प्रभावत्येवं बभाण ।
*सवन्नू सोमदंसण, अपुण्णभव भवियजणमणानंद ।
जय चिंतामणि जगगुरु जय जय जिण वीर अकलंको ॥ १ ॥
तत्र प्रभावत्याऽन्तःपुरमध्ये चैत्यगृहं कारितं, तत्रेयं प्रतिमा स्थापिता । तां च त्रिकालं सा पवित्रा पूजयति । अन्यदा प्रभावती राज्ञी तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां
१ यः कारापयति जिनप्रतिमां, जिनानां जितरागद्वेषमोहानाम् ।
स प्राप्नोति अन्यभवे, शुभजननं धर्मवररत्नम् ॥ १ ॥
२ दारिद्रयं दौर्भाग्यं, कुजाति- कुशरीर - कुगति- कुमतयः । अपमानरोगशोका-न भवन्ति जिनबिम्बकारीनाम् ॥ २ ॥ ३ गत राग-द्वेष मोहः, सर्वज्ञोऽष्टप्रातिहार्यसंयुक्तः । देवाधिदेवगुरुकः, अचिरान्मे दर्शनं देहि ॥ १ ॥
४ सर्वज्ञः सौम्यदर्शनः, अपुर्नभवः भविकजनमनः- आनन्दः । जय चिन्तामणि जगद्गुरु, जय जय जिनवीर ! अकलङ्कः ॥ १ ॥

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350