Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 309
________________ ३००] [उत्तराध्ययनसूत्रे कृता, यद्यहं तं त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार! यदि तव प्रसादेन मम मरणं न सम्पद्यते । यथा च मे प्रतिज्ञानिहो भवति, तथा प्रसादं कुरु । ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः । खेचराधिपतिमिलितः, तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितं, पूजिता च वेगवती।इतश्च जयचन्द्राया मातुल-भ्रातरौ गङ्गाधरमहीधरनामानौ विद्याधरावतिप्रचण्डाविमं व्यतिकरं ज्ञात्वा अनेकभटसहितौ महापद्मन समं सङ्ग्रामार्थ-मागतौ ।महापद्मोऽपि तयोरागमनं श्रुत्वा सूरोदयपुराबहिविद्याधरभटपरिवृतो निर्गतः, संप्रलग्नस्तयोः सङ्ग्रामः, तदानीं महापद्येन स्यन्दनाः, कुञ्जराः, अश्वाः, सुभटाः परबल-सत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्वं बलं दृष्ट्वा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्म-नोभावपि हतौ । ततो लब्धजयः स महापद्म उत्पन्नस्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधि-त्रि-शत्सहस्रमण्डलेश्वरसेवितपादपद्मः, परिणीतैकोनचतुःषष्ठिसहस्त्रान्तःपुरो हयगजस्थपदाति-कोशसम्पन्नो नवमश्चक्रवर्ती जातः । तथापि षट्खण्डभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य महापद्मचक्रिणस्तापसैर्महान् सत्कारः कृतः । जनमेजयेनापि राज्ञा मदनावली तस्य दत्ता, तेन परिणीता स्त्रीरत्नं बभूव । ततो महापद्मश्चक्रवयुर्द्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान् । ताभ्यामप्यधिकस्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागसूरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वन्दित्वा पुरो निषण्णः । गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता । तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येवमुवाच-भगवन्नहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि । गुरुणा भणितं-मा विलम्बं कुर्विति गुरुं प्रणम्य नगरे प्रविष्टो राजा । आकारिता मन्त्रिणः प्रधानपरिजना विष्णुकुमारच, सर्वेषामपि राज्ञैवमुक्तम् । भो भो ! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वञ्चितः । यत् श्रामण्यं नानुष्ठितवान् । ततः साम्प्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम्, तात ! ममापि किम्पाकोपमै गैः सृतम्, तव मार्गमेवानुसरिष्यामि ॥ ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्चपुत्र ! ममेदं राज्यं प्रतिपद्यस्व । विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः । अथ विनीतेन महापद्येन च भणितम् । तात ! निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु । अहं पुनरेतस्यैवाज्ञाप्रतीच्छको भविष्यामि । राज्ञा भणितं-वत्स ! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रवजिष्यति । ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः । विष्णुकुमारसहितः पद्मोत्तरराजा सुव्रतसूरिसमीपे प्रवजितः। ततो महापद्मो विख्यातशासनचक्रवर्ती जातः । स्वमात्रपरमातृकारितौ द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः, तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः । तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकर

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350