SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३००] [उत्तराध्ययनसूत्रे कृता, यद्यहं तं त्वरितं नानयामि, तदा ज्वालाकुले ज्वलने प्रविशामि । ततः कुमार! यदि तव प्रसादेन मम मरणं न सम्पद्यते । यथा च मे प्रतिज्ञानिहो भवति, तथा प्रसादं कुरु । ततस्तदाज्ञया तया महापद्मः सूर्योदये तत्र नीतः । खेचराधिपतिमिलितः, तेन च सुमुहूर्ते तस्याः पाणिग्रहणं कारितं, पूजिता च वेगवती।इतश्च जयचन्द्राया मातुल-भ्रातरौ गङ्गाधरमहीधरनामानौ विद्याधरावतिप्रचण्डाविमं व्यतिकरं ज्ञात्वा अनेकभटसहितौ महापद्मन समं सङ्ग्रामार्थ-मागतौ ।महापद्मोऽपि तयोरागमनं श्रुत्वा सूरोदयपुराबहिविद्याधरभटपरिवृतो निर्गतः, संप्रलग्नस्तयोः सङ्ग्रामः, तदानीं महापद्येन स्यन्दनाः, कुञ्जराः, अश्वाः, सुभटाः परबल-सत्काः सर्वेऽपि बाणैर्विद्धाः, भग्नं स्वं बलं दृष्ट्वा गङ्गाधरमहीधरौ स्वयमुत्थितौ, महापद्म-नोभावपि हतौ । ततो लब्धजयः स महापद्म उत्पन्नस्त्रीरत्नवर्जसर्वरत्नः, प्राप्तनवनिधि-त्रि-शत्सहस्रमण्डलेश्वरसेवितपादपद्मः, परिणीतैकोनचतुःषष्ठिसहस्त्रान्तःपुरो हयगजस्थपदाति-कोशसम्पन्नो नवमश्चक्रवर्ती जातः । तथापि षट्खण्डभरतराज्यं स मदनावल्या रहितं नीरसं मन्यते । अन्यदा तस्मिन्नाश्रमपदे गतस्य तस्य महापद्मचक्रिणस्तापसैर्महान् सत्कारः कृतः । जनमेजयेनापि राज्ञा मदनावली तस्य दत्ता, तेन परिणीता स्त्रीरत्नं बभूव । ततो महापद्मश्चक्रवयुर्द्धिसमेतो हस्तिनागपुरं प्राप्तः, प्रणनाम च जननीजनकपादान् । ताभ्यामप्यधिकस्नेहेन प्रेक्षितः । अत्रान्तरे तत्रैव समवसृतो मुनिसुव्रतस्वामिशिष्यो नागसूरिः, ततो निर्गतः सपरिवारः पद्मोत्तरराजा तं वन्दित्वा पुरो निषण्णः । गुरुणा च तत्पुरो भवनिर्वेदजननी देशना कृता । तां श्रुत्वा वैराग्यमापन्नो राजा गुरुं प्रत्येवमुवाच-भगवन्नहं राज्यं स्वस्थं कृत्वा भवदन्तिके प्रव्रजिष्यामि । गुरुणा भणितं-मा विलम्बं कुर्विति गुरुं प्रणम्य नगरे प्रविष्टो राजा । आकारिता मन्त्रिणः प्रधानपरिजना विष्णुकुमारच, सर्वेषामपि राज्ञैवमुक्तम् । भो भो ! श्रुता भवद्भिः संसारासारता, अहमेतावत्कालं वञ्चितः । यत् श्रामण्यं नानुष्ठितवान् । ततः साम्प्रतं विष्णुकुमारं निजराज्येऽभिषिच्य प्रव्रज्यां गृह्णामि । ततो विष्णुकुमारेण विज्ञप्तम्, तात ! ममापि किम्पाकोपमै गैः सृतम्, तव मार्गमेवानुसरिष्यामि ॥ ततो विष्णुकुमारस्य दीक्षानिश्चयं ज्ञात्वा पद्मोत्तरराज्ञा महापद्म आकारितो भणितश्चपुत्र ! ममेदं राज्यं प्रतिपद्यस्व । विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः । अथ विनीतेन महापद्येन च भणितम् । तात ! निजराज्याभिषेकं विष्णुकुमारस्यैव कुरु । अहं पुनरेतस्यैवाज्ञाप्रतीच्छको भविष्यामि । राज्ञा भणितं-वत्स ! मयोक्तोऽप्ययं राज्यं न प्रतिपद्यते । अवश्यमयं मया समं प्रवजिष्यति । ततः शोभनदिवसे महापद्मस्य कृतो राज्याभिषेकः । विष्णुकुमारसहितः पद्मोत्तरराजा सुव्रतसूरिसमीपे प्रवजितः। ततो महापद्मो विख्यातशासनचक्रवर्ती जातः । स्वमात्रपरमातृकारितौ द्वावपि रथौ तथैव स्तः । महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः, तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः । तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकर
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy