________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२९९ इतश्च चम्पायां नगर्यां जनमेजयो राजा परिवसति । स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् सङ्ग्रामो बभूव । जनमेजयो नष्टः, तस्यान्तःपुरमपीतस्ततो नष्टम् जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा, आगता तं तापसाश्रमम्, समाश्वासिता कुलपतिना तत्रैव स्थिता ।कुंमारमदनावल्योः परस्परमनुरागोजातः।कुलपतिना तन्मात्रा च तयोः परस्परमनुरागो ज्ञातः ।कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनं ? यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि। ततः कथं यत्र तत्रानुरागं करोषि ? कुलपतिनापि कुमारस्य विसर्जनार्थमुक्तम्, कुमार ! त्वमितो गच्छ । तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार । यथाहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति।
__ भ्रमन् कुमारोऽथ प्राप्तः सिन्धुनन्दनं नाम नगरम् । तत्रोद्यानिकामहोत्सवे नगरानिर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडन्ति । अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहट्टभित्तिभङ्गं कुर्वन्नगराबहिर्युवतीजनमध्ये समायातः । ताश्च तं तथाविधं दृष्ट्वा दूरतः प्रधावितुमसमर्थास्तत्रैव स्थिताः यावदसौ तासामुपरिशुण्डापातं करोति, तावता दूरदेशस्थितेन महापद्मन करुणापूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलितः कुमाराभिमखम । तदानीं ताः सर्वा अपि भणन्ति । हाहा ! अस्मदक्षणार्थं प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपन्तीषु च तयोः करिकुमारयो?रः सङ्ग्रामो बभूव । सर्वेऽपि नागरजनास्तत्रायाताः । सामन्तभृत्यसहितो महासेनो राजापि तत्रायातः । भणितं च नरेन्द्रेण कुमार! अनेन समं सङ्ग्रामं मा कुरु । कृतान्त इव च रुष्टोऽसौ तव विनाशं करिष्यतीति । महापद्म उवाच, राजन् ! विश्वस्तो भव । पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकारणं स्वकलया वशीक़तवान् । आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान् । साधुकारेण तं लोकः पूजितवान्, यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति । अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति ? ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं कन्याशतं दत्तम् । तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथापि स तां मदनावली हृदयान्न विस्मारयति ।
__ अन्यदा रजन्यां शय्यागतोऽसौ वेगवत्या विद्याधर्यापहृतः, निद्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि ? तया भणितं कुमार ! श्रृणु। वैताढ्ये सुरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति । तस्य भार्या श्रीकान्ता वर्तते,तस्याः पुत्री जयचन्द्रानाम्नी वर्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि वरम् । ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य पट्टिकायां लिखिताः सर्वेऽपि तस्या दर्शिताः, न कोऽपिरुचितः, अन्यदा मया तस्यास्तव रूपं दर्शितम् । तद्दर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया योष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यम्, अन्यपुरुषस्य मम यावज्जीवं निवृत्तिरेव । एष तस्या व्यतिकरो मया तन्मातृपित्रोज्ञापितः । ताभ्यां त्वदानयनायाहं प्रयुक्ता । अविश्वसन्त्यास्तस्या विश्वासार्थं मयेयं प्रतिज्ञा
૩૯