________________
२९८]
[उत्तराध्ययनसूत्रे हे मुने ! महापद्मोऽप्यष्टमश्चक्री महर्द्धिकस्तपोऽचरत् । किं कृत्वा ? भारतं वासं त्यक्त्वा, पुनरूत्तमान्-प्रधानान् भोगांस्त्यक्त्वा ॥ ४१ ॥ ____ अत्र महापद्मचक्रवर्तिदृष्टान्तः
इहैव जम्बूद्वीपे भारते वर्षे कुरुक्षेत्रे हस्तिनागपुरंनाम नगरम् ।तत्र श्रीऋषभवंशप्रसूतः पद्मोत्तरो नाम राजा। तस्य ज्वालानाममहादेवी। तस्याः सिंहस्वप्नसूचितो विष्णुकुमारनामा प्रथमः पुत्रः । द्वितीयश्चतुर्दशस्वप्नसूचितो महापद्मनामा । द्वावपि वृद्धि गतौ, महापद्मो युवराजः कृतः । इतश्चोज्जयिन्यां नगर्यां श्रीधर्मनामराजा, तस्य नमुचिनामा मन्त्री ।अन्यदा तत्र श्रीमुनिसुव्रतस्वामिशिष्यः सुव्रतो नाम सूरिः समवसृतः।तद्वन्दनार्थं लोकः स्वविभूत्या निर्गतः, प्रासादोपरिस्थितेन राज्ञा दृष्टः । पृष्टाश्च सेवकाः, अकालयात्रया क्वायं लोको गच्छति ? ततो नमुचिमन्त्रिणा भणितम्-देव अत्रोद्याने श्रमणाः समागताः, तेषां यो भक्तो लोकः स तद्वन्दनार्थं गच्छति । राज्ञा भणितम् वयमपि यास्यामः । नमुचिनोक्तं तर्हि त्वया तत्र मध्यस्थेन भाव्यम्, यथाहं वादं कृत्वा तानिरुत्तरीकरोमि ।राजा नमुचिसहितस्तत्र गतः । नमुचिना भणितम्-भो श्रमणाः ! यदि यूयं जानीथ धर्मतत्त्वं तर्हि वदथ । सर्वेऽपि मुनयः क्षुदोऽयमिति कृत्वा मौनेन स्थिताः । ततो नमुचि भृशंरुष्टः सूरि प्रत्येवं भणति । एष बयल्लः (बलद) किं जानाति ? ततः सूरिभिर्भणितं भणामः किमपि यदि ते मुखं *खर्जति ।
इदं वचः श्रुत्वाऽनेकशास्त्रविचक्षणेन क्षुल्लकशिष्येण भणितम्, भगवन्नहमेवैनं निराकरिष्यामि । इत्युक्त्वा क्षुल्लकेन स वादे निरुत्तरीकृतः, साधूनामुपरि द्वेषं गतः । रात्रौ च चरवृत्त्यैकाक्येव मुनिवधार्थमागतो देवतया स्तम्भितः । प्रभाते तदाश्चर्यं दृष्ट्वा राज्ञा लोकेन च स भृशं तिरस्कृतो विलक्षीभूतो गतो हस्तिनागपुरम्, महापद्मयुवराजस्य मन्त्री जातः । इतश्च पर्वतवासी सिंहबलो नाम राजा, स च कोट्टाधिपतिरिति महापद्मदेशं विनाश्य कोट्टे प्रविशति । ततो रुष्टेन महापद्मन नमुचिमन्त्री पृष्टः, सिंहबलराजग्रहणे किञ्चिदुपायं जानासि ? नमुचिनोक्तं सुष्ठ जानामि । ततो महापद्मप्रेरितोऽसौ सैन्यवृतो गतो निपुणोपायेन च दुर्ग भङ्क्त्वा सिंहबलो बद्ध आनीतश्च महापद्मान्तिके । महापद्मेनोक्तं नमुचे ! यत्तवेष्टं तन्मार्गय ? नमुचिनोक्तं साम्प्रतम् वरः कोशेऽस्तु, अवसरे मार्गयिष्यामि । एवं यौवराज्यं पालयतो महापद्मस्य कियान् कालो गतः।
___ अन्यदा महापद्ममात्रा ज्वालादेव्या जिनरथः कारितः,अपरमात्रा चमिथ्यात्ववासितया जिनधर्मप्रत्यनीकया लक्ष्मीनाम्न्या ब्रह्मरथः कारितो भणितश्च पद्मोतरो नाम राजा, यथेष ब्रह्मरथः प्रथमं नगरमध्ये परिभ्रमतु । जिनरथश्च पश्चात्परिभ्रमतु । इदं वचः श्रुत्वा ज्वालादेव्या प्रतिज्ञा कृता, यदि जिनरथः प्रथमं न भ्रमिष्यति तदाऽपरजन्मनि ममाहारः। ततो राज्ञा द्वावपिरथौनिरुद्धौ।महापद्मः स्वजनन्या: परमामधृतिं दृष्ट्वा नगरान्निर्गतः केनापिनज्ञातः। परदेशे गच्छन् महाटव्यां प्रविष्टः, तत्र च परिभ्रमंस्तापसालये गतः । तापसैर्दत्तसन्मानस्तत्र तिष्ठति । १ ख- ४ाग (१.१.)