________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ २९७
चक्रित्वे त्रयोविंशतिवर्षसहस्राणि श्रामण्ये च त्रयोविंशतिवर्षसहस्राणि सार्द्धानि च सप्तशतानि वर्षाण्यभवन् । सर्वायुर्द्विनवतिवर्षसहस्राणि सार्धसप्तशतानि चास्य बभूव । इति श्रीकुन्थुनाथदृष्टान्तः ॥ ६ ॥
सागरंतं चइत्ता णं, भरहं नरवरीसरो ।
अरो य अयं पत्तो पत्तो गइमणुत्तरं ॥ ४० ॥
"
च पुनररोऽरनामा नरवरेश्वरः सप्तमश्चक्री सागरान्तं समुद्रान्तं भरत क्षेत्रं षट्खण्डराज्यं त्यक्त्वाऽरजस्त्वं प्राप्तः सन्ननुत्तरां गतिं सिद्धिगतिं प्राप्तो मोक्षं गत इत्यर्थः । चक्री भूत्वा तीर्थङ्करपदं भुक्त्वा मोक्षं गत इत्यर्थः ॥ ४० ॥
अत्र अरनाथदृष्टान्तः
अरनाथवृत्तान्तस्तूत्तराध्ययनवृत्तिद्वयेऽपि नास्ति । तथापि ग्रन्थान्तराल्लिख्यते- प्राग्विदेहविभूषणे मङ्गलावतीविजये रत्नसञ्चया पुर्यस्ति । तत्र महीपालनाम भूपालोऽस्ति । प्राज्यं राज्यं भुङ्कते । अन्यदा गुरुमुखाद्धर्मं श्रुत्वा वैराग्यमागतः स तृणमिव राज्यं त्यक्त्वा दीक्षां । गुर्वन्ति एकादशाङ्गान्यधीत्य गीतार्थो बभूव । बहुवत्सरकोटीः स संयममाराध्य विशुद्धविंशतिस्थानकैरर्हन्नामकर्म बबन्ध । ततो मृत्वा सर्वार्थसिद्धविमाने देवो बभूव । ततश्च्युत्वेह भरतक्षेत्रे हस्तिनापुरे सुदर्शननामा नृपो बभूव । तस्य राज्ञी देवीनाम्नी बभूव । तस्याः कुक्षौ सोऽवततार । तदानीं रेवतीनक्षत्रं बभूव, तया चतुर्दश स्वप्ना दृष्टाः । ततः पूर्णेषु मासेषु रेवतीनक्षत्रे तस्य जन्म बभूव । जन्मोत्सवस्तदा षट्पञ्चाशद्दिक्कुमारिकाभिश्चतुःषष्टिसुरेन्द्रैर्निर्मितः । ततः सुदर्शनराजापि स्वपुत्रस्य जन्मोत्सवं विशेषाच्चकार । अस्मिन् गर्भगते मात्रा प्रौढरत्नमयोऽरः स्वप्ने दृष्टः । ततः पित्रास्याऽर इति नाम कृतम् । देवपरिवृतः सवयसा गुणैश्च वर्धते स्म । एकविंशतिसहस्रवर्षेषु गतेष्वरकुमारस्य पित्रा राज्यं दत्तम् । एकविंशतिवर्षसहस्राणि यावद्राज्यं भुक्तवतस्तस्य शस्त्रकोशे चक्ररत्नं समुत्पन्नम् ।
ततो भरतं साध्यैकविंशतिसहस्रवर्षाणि यावच्चक्रवर्तित्वं बुभुजे । ततः स्वामी स्वयम्बुद्धोऽपि लोकान्तिकदेवबोधितो वार्षिकं दानं दत्वा चतुःषष्टिसुरेन्द्रसेवितो वैजयन्त्याख्यां शिबिकामारूढः । सहस्राम्रवने सहस्त्रराजभिः समं प्रव्रजितः । ततश्चतुर्ज्ञान्यसौ त्रीणि वर्षाणि छास्थ्ये विहृत्य पुनः सहस्राम्रवने प्राप्तः । तत्र शुक्लध्यानेन ध्वस्तपापकर्मारः केवलज्ञानं प्राप । ततः सुरैः समवसरणे कृते स्वामी योजनगामिना शब्देन देशनां चकार । तद्देशनां श्रुत्वा केsपि सुश्रावका जाताः केऽपि च प्रव्रजिताः । तदानीं कुम्भभूपः प्रव्रज्य प्रथमो गणधरो जातः । अरनाथस्य षष्टिसहस्राः साधवो जाताः । साध्व्यः स्वामिनस्तावत्प्रमाणा एव जाताः । श्रावकाश्चतुरशीतिसहस्त्राधिकलक्षमाना बभूवुः । श्राविकाश्चतुरशीतिसहस्त्राधिकलक्षत्रयमाना बभूवुः । सर्वायुः चतुरशीतिसहस्त्रवर्षाणि भुक्त्वा सम्मेतशैलशिखरे मासिकानशनेन भगवान्निर्वृत्तः । देवैर्निर्वाणोत्सवो भृशं कृतः । इत्यरचक्रवर्तिदृष्टान्तः ॥ ९ ॥ चइत्ता भारहं वासं, चक्कवट्टी महड्डिओ ।
I
चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥ ४१ ॥
३८