________________
२९६]
[उत्तराध्ययनसूत्रे क्षेत्रे हस्तिनागपुरे विश्वसेनस्य राज्ञोऽचिरादेव्याः कुक्षौ भाद्रपदकृष्णसप्तम्यां चतुर्दशस्वप्नसूचितः पुत्रत्वेनोत्पन्नः । साधिकनवमासानुदरे धृत्वा तमचिरादेवी ज्येष्ठकृष्णत्रयोदश्यां प्रसूतवती । षट्पञ्चाशदिक्कुमारीमहोत्सवो जातः । चतुःषष्ठिसुरेन्ट्रैरपि जन्माभिषेकः कृत उचितसमये । गर्भस्थे चास्मिन् भगवति सर्वदेशेषु शान्तिर्जातेति शान्तिरिति नाम कृतं मातृपितृभ्याम्, क्रमेणासौ सर्वकलाकुशलो जातः । यौवनं प्राप्तो विवाहितः प्रवरराजकन्याभिः, क्रमेण राज्ये स्थापितः, पित्रा चारित्रं गृहीतम् ।शान्तेश्चक्रवर्तिपदवी समायाता, उत्पन्नानि चतुर्दश रत्नानि, साधितं भरतम्, अखण्डं षट्खण्डराज्यं परिपाल्योचितावसरे स्वयं सम्बुद्धोऽपि लोकान्तिकामरैः प्रतिबोधितः, सांवत्सरं दानं दत्वा ज्येष्ठकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रान्तः । ___चतुर्ज्ञानसमन्वितस्योद्यतविहारं कुर्वतः पौषशुक्लनवम्यां केवलज्ञानं समुत्पन्नम् । देवैः समवसरणं कृतम्, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता गणधराः, प्रतिबोधिता बहवः प्राणिनः । क्रमेण विहृत्य भरतक्षेत्रं बोधिबीजमुप्त्वा क्षीणसर्वकर्मांशो ज्येष्ठकृष्णत्रयोदश्यां मोक्षं गत इति । अस्य भगवतः कुमारत्वे पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्वेऽपि पञ्चविंशतिवर्षसहस्राणि, चक्रित्वे पञ्चविंशतिवर्षसहस्राणि, श्रामण्ये च पञ्चविंशतिवर्षसहस्राणि, सर्वायुश्च वर्षलक्षमेकं जातमिति । इति शान्तिनाथदृष्टान्तः ॥५॥
इक्खागरायवसहो, कुंथु नामनरेसरो ।
विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥ पुनः कुन्थुनामा नरेश्वरः षष्ठचक्री अनुत्तरां - सर्वोत्कृष्टां गतिं प्राप्तः । कीदृशः कुन्थुः ? भगवानैश्वर्यज्ञानवान् । पुनः कीदृशः कुन्थुः ? ईक्ष्वाकुराजवृषभः, ईक्ष्वाकुवंशीयभूपेषु वृषभो वृषभसमानः प्रधान इत्यर्थः । पुनः कीदृशः ? विख्यातकीर्तिः, अत्र भगवानिति विशेषणेनाष्टमहाप्रातिहार्याद्यैश्वर्ययुक्तः सप्तदशस्तीर्थङ्करः षष्ठश्चक्री कुन्थुर्जेयः ॥ ३९ ॥
अत्र कुन्थुनाथदृष्टान्त:
हस्तिनागपुरे सूरराज्ञः श्रीदेवी भार्या । तस्या कुक्षौ भगवान् पुत्रत्वेनोत्पन्नः जन्ममहोत्सवानन्तरं च स्वप्ने जनन्या रत्नस्तूपः 'कुस्थो दृष्टः । गर्भस्थे च भगवति पित्रा शत्रवः कुन्थुवद् दृष्टाः इति कुन्थुनाम कृतम् । पित्रा प्राप्तयौवनश्चायं विवाहितो राजकुमारिकाभिः । काले च भगवन्तं राज्ये व्यवस्थाप्य सूरराजा स्वयं दीक्षां जग्राह। भगवांश्चोत्पन्नचक्ररत्नप्रसाधितभरतश्चक्रवर्तिभोगान् बुभुजे । तीर्थप्रवर्तमानसमये च निष्क्राम्य षोडशवर्षाणि चोगविहारेण विहृत्य केवलज्ञानभाक् जातः । देवाश्च समवसरणमकार्षुः । प्रवजिताः केवलपर्यायेण घना लोकाः । घनं कालं विहृत्य सम्मेतगिरिशिखरे मोक्षमगमत् । तस्य भगवतः कुमारत्वे त्रयोविंशतिवर्षसहस्राणि, माण्डलिकत्वे च त्रयोविंशतिवर्षसहस्राणि
१ पृथ्वीस्थः॥