________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ २९५
मनुष्यभाषयोवाच । वज्रायुधेन तस्य शरणं दत्तम्, स्थितस्तदन्तिके पारापतः, तदन्तरं तत्रैवागतो लावकः, तेनापि भणितम्, यथा महासत्व ! एष मया क्षुधाक्लान्तेन प्राप्तः, ततो मुञ्चैनम्, अन्यथा नास्ति मम जीवितमिति । ततस्तद्वचनमाकर्ण्य वज्रायुधेन भणितम्, न युक्तं शरणागतसमर्पणम्, तवापि न युक्तमेतत्, यतः -
""हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणं ।
अप्पाणं दिवसाणं कए, स नासेइ अप्पाणं ।। १ ।।"
यथा जीवितं तव प्रियम्, सर्वेषामपि जीवानां तथैवास्ति । एनं भयभ्रान्तं दीनं व्यापादयितुं तव न युक्तम्, धर्मं कुरु । पापं मुञ्च । लावकः प्रतिभणति राजन्नहं बुभुक्षितः, न मे मनसि धर्मस्तिष्ठति । ततः पुनरपि भणितम् राज्ञा, भो महासत्त्व ! यदि बुभुक्षितस्त्वं ततोऽन्यत्तव मांसं ददामि । लावकः प्रतिभणति, स्वयंव्यापादितजीवमांसदुर्ललितोऽहम्, न च रोचते मह्यं परव्यापादितमांसम् । राज्ञा भणितम्, यावन्मात्रेण मांसेन पारापतस्तुलति, तावन्मात्रं मांसं ददामि । सोऽप्यवदत्, यदि त्वं स्वदेहादुत्कीर्य मांसं ददासि तदाहं तं मुञ्चामि । तद्राज्ञा प्रतिपन्नम् । ततस्तुष्टो लावकः, राज्ञा च तुलाऽऽनायिता, एकस्मिन् पार्श्वे पारापतो प्रक्षिप्तः, एकस्मिन् पार्श्वे स्वदेहादुत्कीर्णमांसारोपो विहितः, राजा यथा यथा तत्र मांसं प्रक्षिपति तथा तथाऽन्यत्र पार्श्वे पारापतो गुरुतरो देवमायया भवति । राजा पुनः पुनरुत्कृत्योत्कृत्य स्वदेहमांसमन्यत्र क्षिपति । तं दृष्ट्वा राजलोकः समस्तो हाहारवं चकार । पारापतपार्श्वे गुरुभारमवेक्ष्य स्वमांसपार्श्वे राजा स्वयमारूढः, एतादृशं वज्रायुधस्य सत्त्वं दृष्ट्वा विस्मितो देवः स्वं रूपं प्रकटीकृत्य प्रकामं स्तुत्वा च स्वस्थानं गतवान् ।
अन्यदा वज्रायुधसहस्त्रायुधौ पितृपुत्रौ क्षेमङ्करगणधरसमीपे जातवैराग्यौ सहस्रायुधसुतं aff राज्येऽभिषिच्य प्रव्रजितौ । प्रव्रज्यापर्यायं च परिपाल्य पादपोपगमनविधिना कालं कृत्वा द्वावपि जनावुपरितनग्रैवेयके एकत्रिंशत्सागरोपमस्थितिकावहमिन्द्रदेवौ जातौ । अहमिन्दसौख्यमनुभूय ततश्च्युताविहैव जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये पुण्डरीकिण्यां नगर्यां घनरथो राजा, तस्य द्वे महादेव्यौ पद्मावती मनोरमती च । तयोर्गर्भे जाते । वज्रायुधो मेघरथः, सहस्त्रायुधो दृढरथश्चेति वृद्धिं गतौ । ततः कृतं ताभ्यां कलाग्रहणम्, तौ द्वौ राज्ये स्थापयित्वा घनरथः स्वयं दीक्षां गृहीत्वा केवलज्ञानमुत्पाद्य तीर्थङ्करो जातः । तयोर्मेघरथदृढरथयोः पूर्वभवाभ्यासतो जिनधर्मदक्षताभूत् । अधिगतजीवाजीवादिभावौ तौ सुश्रावकौ जातौ ।
अन्यदा पितुस्तीर्थङ्करस्य समीपे द्वावपि जनौ निजपुत्रं राज्येऽभिषिच्य प्रव्रजितौ । तत्राधीतसूत्रार्थेन - मेघरथेन विंशतिस्थानकैः समर्जितं तीर्थङ्करनामगोत्रम् । दृढरथेन शुद्धं चारित्रमाराधितम् । द्वावपि संलेखनाविधिना कालं कृत्वाऽनुत्तरोपपातिकेषु देवेषूत्पन्नौ । तत्र सर्वार्थसिद्धविमानेऽनर्गलं सुखमनुभूय मेघरथकुमारस्ततश्च्युत्वेहैव जम्बूद्वीपे भारते १ हत्वा परप्राणान् आत्मानं यः करोति सप्राणम् । अल्पानां दिवसानां कृते स नाशयति आत्मानम् ॥१॥