Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 308
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [२९९ इतश्च चम्पायां नगर्यां जनमेजयो राजा परिवसति । स च कालनरेन्द्रेण प्रतिरुद्धः, ततो महान् सङ्ग्रामो बभूव । जनमेजयो नष्टः, तस्यान्तःपुरमपीतस्ततो नष्टम् जनमेजयस्य राज्ञो नागवतीनाम भार्या, सा मदनावलीपुत्र्या समं नष्टा, आगता तं तापसाश्रमम्, समाश्वासिता कुलपतिना तत्रैव स्थिता ।कुंमारमदनावल्योः परस्परमनुरागोजातः।कुलपतिना तन्मात्रा च तयोः परस्परमनुरागो ज्ञातः ।कुलपतिना नागवत्या मात्रा च भणिता मदनावली, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकवचनं ? यथा चक्रवर्तिनस्त्वं प्रथमपत्नी भविष्यसि। ततः कथं यत्र तत्रानुरागं करोषि ? कुलपतिनापि कुमारस्य विसर्जनार्थमुक्तम्, कुमार ! त्वमितो गच्छ । तदानीं त्वरितमेव ततो निर्गतः कुमार एवं मनोरथं चकार । यथाहमेतस्याः सङ्गमेन भरताधिपो भूत्वा ग्रामाकरनगरादिषु सर्वत्र जिनभवनानि कारयिष्यामीति। __ भ्रमन् कुमारोऽथ प्राप्तः सिन्धुनन्दनं नाम नगरम् । तत्रोद्यानिकामहोत्सवे नगरानिर्गता नरनार्यश्च विविधक्रीडाभिः क्रीडन्ति । अस्मिन्नवसरे राज्ञः पट्टहस्ती आलानस्तम्भमुन्मूल्य गृहहट्टभित्तिभङ्गं कुर्वन्नगराबहिर्युवतीजनमध्ये समायातः । ताश्च तं तथाविधं दृष्ट्वा दूरतः प्रधावितुमसमर्थास्तत्रैव स्थिताः यावदसौ तासामुपरिशुण्डापातं करोति, तावता दूरदेशस्थितेन महापद्मन करुणापूर्णहृदयेन हक्कितोऽसौ करी, सोऽपि वेगेन चलितः कुमाराभिमखम । तदानीं ताः सर्वा अपि भणन्ति । हाहा ! अस्मदक्षणार्थं प्रवृत्तोऽयं करिणा हिंस्यते । एवं तासु प्रलपन्तीषु च तयोः करिकुमारयो?रः सङ्ग्रामो बभूव । सर्वेऽपि नागरजनास्तत्रायाताः । सामन्तभृत्यसहितो महासेनो राजापि तत्रायातः । भणितं च नरेन्द्रेण कुमार! अनेन समं सङ्ग्रामं मा कुरु । कृतान्त इव च रुष्टोऽसौ तव विनाशं करिष्यतीति । महापद्म उवाच, राजन् ! विश्वस्तो भव । पश्य मम कलामित्युक्त्वा क्षणेन तं मत्तकारणं स्वकलया वशीक़तवान् । आरूढश्च तं मत्तगजं महापद्मः स्वस्थाने नीतवान् । साधुकारेण तं लोकः पूजितवान्, यथैष कोऽपि महापुरुषः प्रधानकुलसमुद्भवोऽस्ति । अन्यथा कथमीदृशं रूपं विज्ञानं चास्य भवति ? ततो राज्ञा स्वगृहे नीत्वा कुमारस्य विविधोपचारकरणपूर्वकं कन्याशतं दत्तम् । तेन समं विषयसुखमनुभवतस्तस्य महापद्मकुमारस्य दिवसास्तत्र सुखेन यान्ति । तथापि स तां मदनावली हृदयान्न विस्मारयति । __ अन्यदा रजन्यां शय्यागतोऽसौ वेगवत्या विद्याधर्यापहृतः, निद्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमारेण भणिता, किं त्वमेवं मामपहरसि ? तया भणितं कुमार ! श्रृणु। वैताढ्ये सुरोदयनाम नगरमस्ति । तत्रेन्द्रधनुर्नाम विद्याधराधिपतिरस्ति । तस्य भार्या श्रीकान्ता वर्तते,तस्याः पुत्री जयचन्द्रानाम्नी वर्तते । सा च पुरुषद्वेषिणी नेच्छति कथमपि वरम् । ततो नरपत्याज्ञया मया सर्वत्र वरनरेन्द्रा विलोक्य पट्टिकायां लिखिताः सर्वेऽपि तस्या दर्शिताः, न कोऽपिरुचितः, अन्यदा मया तस्यास्तव रूपं दर्शितम् । तद्दर्शनानन्तरमेव सा कामावस्थया गृहीता, भणितं च तया योष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यम्, अन्यपुरुषस्य मम यावज्जीवं निवृत्तिरेव । एष तस्या व्यतिकरो मया तन्मातृपित्रोज्ञापितः । ताभ्यां त्वदानयनायाहं प्रयुक्ता । अविश्वसन्त्यास्तस्या विश्वासार्थं मयेयं प्रतिज्ञा ૩૯

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350