Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 286
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [२७७ पुनः परमन्त्रेभ्यः प्रतिक्रमामि प्रतिनिवर्ते, परस्य - गृहस्थस्थ मन्त्राणि - कार्यालोचनानि तेभ्यः परमन्त्रेभ्यः, एभ्यः सर्वेभ्यः पराङ्मुखो भवामि ।'अहो' इति आश्चर्ये, अहोरात्रमुत्थितो धर्मं प्रत्युद्यतः कश्चिदेव महात्मैवंविधः स्यात्, इति विदन्निति जानस्तपश्चरेः, न तु प्रश्नमन्त्रादिके चरेः ॥३१॥ जं च मे पुच्छसि काले, सम्मं सुद्धेण चेयसा । ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥३२॥ अथ संयतमुनिना पृष्टम्, त्वमायुः कथं जानासि ? तदा पुनः क्षत्रियमुनिराह-हे संयत ! त्वं मां काले इति कालविषयमायुर्विषयं ज्ञानं पृच्छसि । कीदृशस्त्वं ? सम्यक् शुद्धेननिर्मलेन चित्तेनोपलक्षितः, 'तमि' ति सूत्रत्वात्तद् ज्ञानं बुद्धः श्रीमहावीरः, अथवा बुद्धः श्रुतज्ञानवान् प्रादुरकरोत्, पुनस्तच्च ज्ञानं श्रीजिनशासने जानीहि । नापरस्मिन् कुत्रापि दर्शनेऽस्ति । ततोऽहं तत्र स्थितः, तत्प्रसादाद् बुद्धोऽस्मीति भावः ॥ ३२ ॥ किरियंच रोयए धीरो, अकिरियं परिवज्जए। दिट्ठीए दिट्ठीसंपन्ने, धम्मं चर सुदुच्चरं ॥ ३३ ॥ धीरोऽक्षोभ्यः क्रियां जीवस्य विद्यमानतां-जीवसत्तां रोचयति, स्वयं स्वस्मै अभिलषयति, तथा परस्मै अप्यभिलषयतीत्यर्थः । अथवा क्रियां-सम्यगनुष्ठानरूपां प्रतिक्रमणप्रतिलेखनारूपां मोक्षमार्गसाधनभूतां ज्ञानसहितां क्रियां रोचयति । पुनरक्रियां जीवस्य नास्तित्वं -जीवे जीवस्याऽविद्यमानतां परिवर्जयेत्, अथवा अक्रियां मिथ्यात्विभिः कल्पितां कष्टक्रियामज्ञानक्रियां परित्यजेत् ।पुनर्धारः पुमान् दृष्ट्या-सम्यग्दर्शनात्मिकया दृष्टिसम्पन्नो भवति । दृष्टिः- सम्यग्ज्ञानात्मिका बुद्धिस्तया सम्पन्न:- सहितो दृष्टिसम्पन्नः, सम्यग्दर्शनेन सम्यग्ज्ञान-सहितः इत्यर्थः । तस्मात्त्वमपि सम्यग्ज्ञानदर्शनसहितः सन् सुदुश्चरं कर्तुमशक्यं धर्मं - चारित्रधर्मं चर-अङ्गीकुरु ॥ ३३ ॥ अथ क्षत्रियमुनिः संयतमुनि प्रति महापुरुषाणां धर्ममार्गप्रवर्तितानां दृष्टान्तेन दृढीकरोति । एयं पुण्णपयं सोच्चा, अत्थधम्मोवसोहियं । भरहोवि भारहं वासं, चिच्चा कामाई पव्वए ॥ ३४ ॥ हे मुने ! भरतोऽपि भरतनामा चक्र्यपि भारतं क्षेत्रं षट्खण्डद्धिं त्यक्त्वा, पुनः कामान् - कामभोगांस्त्यक्त्वा प्रवजितो दीक्षां प्रपन्न इत्यर्थः । किं कृत्वा ? एतत्पूर्वोक्तं पुण्यपदं श्रुत्वा, पुण्यं च तत्पदं च पुण्यपदम्, पुण्यं-पवित्रमान्निष्कलङ्क-निर्दूषणम्, अथवा पुण्यंपुण्यहेतुभूतम्, एतादृशं पदम्, पद्यते ज्ञायतेऽर्थोऽनेनेति पदं सूत्रं जिनोक्तमा-गमम्, क्रियावाद्यादिनानारुचिवर्जननिवेदकशब्दसूचनालक्षणम्, तत् श्रवणविषयीकृत्य ।अथवा पूर्ण पदम्, पूर्णपदं सम्पूर्णज्ञानम्, पदशब्देन ज्ञानमप्युच्यते । कीदृशं पुण्यपदम् ? अर्थधर्मोपशोभितम्, अर्थ्यते प्रार्थ्यते इत्यर्थः, स्वर्गापवर्गलक्षणः पदार्थः, धर्मस्तदुपायभूतः

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350