Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 293
________________ २८४] [उत्तराध्ययनसूत्रे भवपडिबंधनिमित्तं, एगाइवत्थु न वरं सव्वंपि । कइवयदिणावसाणे, सुमिणोभोगुव्व न हि किंचि ॥ २ ॥ ततोऽहं धर्मकर्मण्युद्यमं करोमि, धर्म एव भवान्तरानुगामी । एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवाचक्री परिव्रजितः कालक्रमेण विविधतपश्चरणेन कालं कृत्वा सनत्कुमारे कल्पे गतः । इति मघवादृष्टान्तः ३ ॥३६ ॥ सणंकुमारो मणुस्सिदो, चक्कवट्टी महड्डिओ। पुत्तं रज्जे ठविऊणं, सो वि राया तवं चरे॥३७॥ पुनः सनत्कुमारो मनुष्येन्द्रश्चतुर्थचक्री, सोऽपि तपश्चारित्रं समाचरेदित्यर्थः। किं कृत्वा ? पुत्रं राज्ये स्थापयित्वा । स च कीदृशः ? महर्द्धिकः ॥ ३७॥ अत्र सनत्कुमारदृष्टान्त: अस्त्यत्र भरतक्षेत्रे कुरुजङ्गलजनपदे हस्तिनागपुरं नाम नगरम् । तत्राश्वसेनो नाम राजा। तस्य भार्या सहदेवीनाम्नी । तयोः पुत्रश्चतुर्दशस्वप्जसूचितश्चतुर्थचक्रवर्ती सनत्कुमारो नाम । तस्य सूरिकालिन्दीतनयेन महेन्द्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः । सनत्कुमारो यौवनमनुप्राप्तः । अन्यदा वसन्तसमयेऽनेकराजपुत्रनगरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः तत्राश्चक्रीडां कर्तुं सर्वे कुमारा अश्वारूढाः स्वं स्वमश्वं खेलयन्ति । सनत्कुमारोऽपि जलधिकल्लोलाभिधानं तुरङ्गमारूढः । समकालं सर्वैः कुमारैः मुक्ताः, ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता, यथाऽपरकुमाराश्वाः प्राक्पतिताः । कुमारावस्त्वदृश्यीभूतः । ज्ञातवृत्तान्तो राजा सपरिकरस्तत्पृष्ठौ चलितः । अस्मिन्नवसरे प्रचण्डवायुर्वातुम् लग्नः, तेन तुरगपदमार्गो भग्नः । महेन्द्रसिंहो राजाज्ञां मार्गयित्वोन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवीम् । तत्र भ्रमतस्तस्य वर्षमेकमतिक्रान्तम् । एकस्मिन् दिवसे गतः स्तोकं भूमिभागं यावत्, तावदेकं महत्सरो दृष्टवान्, तत्र कमलपरिमलमाघ्रातवान्, श्रुतवांश्च मधुरगीतवेणुरवम्, यावन्महेन्दसिंहोऽग्नं गच्छति, तावत्तरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान् । विस्मितमना महेन्द्रसिंहश्चिन्तयति, किंवा मदैष विभ्रमो दृश्यते ? किं वा सत्य एवायं सनत्कुमारः? यावदेवं चिन्तयन्महेन्द्रसिंहस्तिष्ठति तावत्पठितमिदं बन्दिना "जय आससेणनहयल-मयंक कुरुभुवणलग्गणे खंभ । जय तिहुअणनाह सणं-कुमार जय लद्धमाहप्पं ॥ १ ॥" ततो महेन्द्रसिंहः सनत्कुमारोऽयमिति निश्चितवान् । १ भवप्रतिबन्धनिमित्तं, एकादिवस्तु न वरं सर्वेऽपि । कतिपयदिनावसाने, स्वप्नभोग इव न हि किञ्चित् ॥२॥ २ जय अश्वसेननभस्तल-मृगाङ्क कुरुभुवनलगने स्तम्भ । जय त्रिभुवननाथ ! सनत्कुमार। जय लब्धमाहात्म्य ॥१॥

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350