Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 300
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८ ] [ २९१ 1 ५ प्रभृतयो लब्धयः सम्पन्नाः । तथाप्यसौ स्वशरीरप्रतीकारं न करोति । पुनः शक्रेणैकदैवं स प्रशंसितः । अहो ! पश्यन्तु देवाः सनत्कुमारस्य धीरत्वं ! व्याधिकदर्थितोऽप्ययं न स्वयं स्ववपुःप्रतीकारं कारयति । एतदिन्द्रवचनमश्रद्दधानौ तावेव देवौ वैद्यरूपेण तस्य मुनेः समीपे समायातौ भणितवन्तौ च भगवंस्तव वपुष्यावां प्रतीकारं कुर्वः । सनत्कुमारस्तदानीं तूष्णीक एव स्थितः । पुनस्ताभ्यां भणितम्, परं तथैव मुनिमनभाग्जातः, पुनः पुनस्तथैव तौ भणतः, तदा मुनिना भणितम्, भवन्तौ किं शरीरव्याधिस्फेटकौ ? किंवा कर्मव्याधिस्फेटकौ ? ताभ्यां भणितमावां शरीरव्याधिस्फेटकौ । तदानीं सनत्कुमारमुनिना स्वमुखथूत्कृतेन घर्षिता स्वाङ्गुली कनकवर्णा दर्शिता । भणितं चाहं स्वयमेव शरीरव्याधिं स्फेटयामि । यदि मे सहनशक्तिर्न स्यात्तदेति । युवां यदि संसारव्याधिस्फेटनसमर्थौ तदा तं स्फेटयेथाः । तौ देवौ विस्मितमनस्कौ प्रकटितस्वरूपावेवमूचतुः । भगवंस्त्वमेव संसारव्याधिस्फेटनसमर्थोऽसि । आवाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहागत्य त्वं परीक्षितः । यादृशः शक्रेण वर्णितस्तादृश एव त्वमसीत्युक्त्वा प्रणम्य च तौ स्वस्थानं गतौ । भगवान् सनत्कुमारस्तु कुमारत्वे पञ्चाशद्वर्षसहस्त्राणि, माण्डलिकत्वे पञ्चाशद्वर्षसहस्त्राणि, चक्रवर्तित्वे वर्षलक्षम्, श्रामण्ये च वर्षलक्षमेकं परिपाल्य सम्मेतशैलशिखरं गतः । तत्र शिलातले आलोचनाविधानपूर्वं मासिकेन भक्तेन कालं कृत्वा सनत्कुमारकल्पे देवत्वेनोत्पन्नः । ततश्च्युतो महाविदेहे वासे सेत्स्यति । इति सनत्कुमारदृष्टान्तः ४ ॥ ३७ ॥ चइत्ता भारहं वासं, चक्कवट्टी महड्डिओ । संती संतिकरे लोए, पत्तो गइमणुत्तरं ॥ ३८ ॥ पुनः शान्तिः शान्तिनाथः प्रस्तावात्पञ्चमश्चक्री अनुत्तरां गतिं प्राप्तो मोक्षं प्राप्तः । कथंभूतः शान्तिः ? लोके शान्तिकरः, शान्तिं करोतीति शान्तिकरः, इति विशेषणेन तीर्थङ्करत्वं प्रतिपादितम् । षोडशस्तीर्थकरः शान्तिनाथो मोक्षं जगामेत्यर्थः । किं कृत्वा ? भारतं वासं त्यक्त्वा, भरतस्येदं भारतम् भरतक्षेत्रसम्बन्धिवासमिति राज्यवासम् । कीदृशः शान्तिः । चक्रवर्ती महर्द्धिकः, इत्यनेन शान्तेश्चक्रवर्तित्वं तीर्थकरत्वं च प्रतिपादितम् ॥ ३८ ॥ अत्र शान्तिनाथदृष्टान्तः इहैव जम्बूद्वीपे भरतक्षेत्रे वैताढ्यपर्वते रथनूपुरचक्रवालं नाम नगरमस्ति । तत्र राजामिततेजाः परिवसति, तस्य सुतारानाम्नी भगिनी वर्तते । सा च पोतनाधिपतिना श्रीविजयराज्ञा परिणीता । अन्यदा अमिततेजा राजा पोतनपुरे श्रीविजयसुतारादर्शनार्थं गतः । प्रेक्षते चप्रमुदितमुच्छ्रितपताकं सर्वमपि पुरम्, विशेषतश्च राजकुलम् । ततो विस्मितलोचनोऽमिततेजा राजा गगनतलादुत्तीर्णः, गतश्च राजभवनम् अभ्युत्थानादिना सत्कृतः श्रीविजयेन, कृतमुचितं करणीयम् । उपविष्टः सिंहासनेऽमिततेजा राजा पप्रच्छ नगरोत्सवकारणम् । श्रीविजयः प्राह-यथेतोऽष्टमे दिवसे मदन्तिके एको नैमित्तिकः समायातः । मदनुज्ञाते

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350