________________
२८४]
[उत्तराध्ययनसूत्रे भवपडिबंधनिमित्तं, एगाइवत्थु न वरं सव्वंपि ।
कइवयदिणावसाणे, सुमिणोभोगुव्व न हि किंचि ॥ २ ॥ ततोऽहं धर्मकर्मण्युद्यमं करोमि, धर्म एव भवान्तरानुगामी । एवमादिकं परिभाव्य पुत्रनिहितराज्यो मघवाचक्री परिव्रजितः कालक्रमेण विविधतपश्चरणेन कालं कृत्वा सनत्कुमारे कल्पे गतः । इति मघवादृष्टान्तः ३ ॥३६ ॥
सणंकुमारो मणुस्सिदो, चक्कवट्टी महड्डिओ।
पुत्तं रज्जे ठविऊणं, सो वि राया तवं चरे॥३७॥ पुनः सनत्कुमारो मनुष्येन्द्रश्चतुर्थचक्री, सोऽपि तपश्चारित्रं समाचरेदित्यर्थः। किं कृत्वा ? पुत्रं राज्ये स्थापयित्वा । स च कीदृशः ? महर्द्धिकः ॥ ३७॥
अत्र सनत्कुमारदृष्टान्त:
अस्त्यत्र भरतक्षेत्रे कुरुजङ्गलजनपदे हस्तिनागपुरं नाम नगरम् । तत्राश्वसेनो नाम राजा। तस्य भार्या सहदेवीनाम्नी । तयोः पुत्रश्चतुर्दशस्वप्जसूचितश्चतुर्थचक्रवर्ती सनत्कुमारो नाम । तस्य सूरिकालिन्दीतनयेन महेन्द्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः । सनत्कुमारो यौवनमनुप्राप्तः । अन्यदा वसन्तसमयेऽनेकराजपुत्रनगरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः तत्राश्चक्रीडां कर्तुं सर्वे कुमारा अश्वारूढाः स्वं स्वमश्वं खेलयन्ति । सनत्कुमारोऽपि जलधिकल्लोलाभिधानं तुरङ्गमारूढः । समकालं सर्वैः कुमारैः मुक्ताः, ततो विपरीतशिक्षितेन कुमाराश्वेन तथा गतिः कृता, यथाऽपरकुमाराश्वाः प्राक्पतिताः । कुमारावस्त्वदृश्यीभूतः । ज्ञातवृत्तान्तो राजा सपरिकरस्तत्पृष्ठौ चलितः । अस्मिन्नवसरे प्रचण्डवायुर्वातुम् लग्नः, तेन तुरगपदमार्गो भग्नः । महेन्द्रसिंहो राजाज्ञां मार्गयित्वोन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवीम् । तत्र भ्रमतस्तस्य वर्षमेकमतिक्रान्तम् । एकस्मिन् दिवसे गतः स्तोकं भूमिभागं यावत्, तावदेकं महत्सरो दृष्टवान्, तत्र कमलपरिमलमाघ्रातवान्, श्रुतवांश्च मधुरगीतवेणुरवम्, यावन्महेन्दसिंहोऽग्नं गच्छति, तावत्तरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान् । विस्मितमना महेन्द्रसिंहश्चिन्तयति, किंवा मदैष विभ्रमो दृश्यते ? किं वा सत्य एवायं सनत्कुमारः? यावदेवं चिन्तयन्महेन्द्रसिंहस्तिष्ठति तावत्पठितमिदं बन्दिना
"जय आससेणनहयल-मयंक कुरुभुवणलग्गणे खंभ ।
जय तिहुअणनाह सणं-कुमार जय लद्धमाहप्पं ॥ १ ॥" ततो महेन्द्रसिंहः सनत्कुमारोऽयमिति निश्चितवान् । १ भवप्रतिबन्धनिमित्तं, एकादिवस्तु न वरं सर्वेऽपि ।
कतिपयदिनावसाने, स्वप्नभोग इव न हि किञ्चित् ॥२॥ २ जय अश्वसेननभस्तल-मृगाङ्क कुरुभुवनलगने स्तम्भ । जय त्रिभुवननाथ ! सनत्कुमार। जय लब्धमाहात्म्य ॥१॥