________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८५ अथ प्रकामं प्रमुदितमना महेन्द्रसिंहः सनत्कुमारेण दूरादागच्छन् दृष्टः । सनत्कुमारोऽप्युत्थायाभिमुखमाययौ । महेन्द्रसिंहः सनत्कुमारपादयोः पतितः । सनत्कुमारेण समुत्थापितो गाढमालिङ्गितश्च । द्वावपि प्रमुदितमनस्कौ विद्याधरदत्तासने उपविष्टौ । विद्याधरलोकश्च तयोः पार्वे उपविष्टः । अथानन्दजलपूरितनयनेन सनत्कुमारेण भणितम्-मित्र ! कथमेकाक्येव त्वमस्यामटव्यामागतः ? कथं चात्र स्थितोऽहं त्वया ज्ञातः ? किं च करोति मद्धिरहे मम पिता माता च ? कथितः सर्वो वृत्तान्तो महेन्द्रसिंहेन ।
ततो महेन्द्रसिंहो वरविलासिनीभिर्मज्जितः स्नापितश्च । भोजनं द्वाभ्यां सममेव कृतम्। भोजनावसाने च महेन्द्रसिंहेन सनत्कुमारः पृष्टः । कुमार ! तदा त्वं तुरङ्गमेणापहृतः क्व गतः ? क्व स्थितश्च ? कुत एतादृशी ऋद्धिस्त्वया प्राप्ता ? सनत्कुमारेण चिन्तितं न युक्तं निजचरित्रकथनं मुखेन, इति संज्ञिता स्वयं परिणीता खेचरेन्द्रपुत्री विपुलमतीनाम्नी स्वप्रियसनत्कुमारवृत्तान्तं स्वविद्याबलेन कथयितुं प्रवृत्ता
तदानीं कुमारो भवदादिषु पश्यत्सु तुरङ्गमेणापहृतो महाटव्यां प्रविष्टः । द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याह्नसमयो जात ।क्षुधापिपासाकुलितेन श्रान्तेनाश्चेन निष्कासिता जिह्वा, कुमारस्तत उत्तीर्णः, सोऽश्वस्तदानीमेव मृतः । कुमारस्ततः पादाभ्यामेव चलितः, तृषाक्रान्तश्च सर्वत्र जलं गवेषयन्नपि न प्राप । ततो दीर्घाध्वश्रमेण सुकुमारत्वेन चात्यन्तमाकुलीभूतो दूरदेशस्थितं सप्तच्छदं वृक्षं पश्यन् तदभिमुखं धावन् कियत्कालानन्तरं तत्र प्राप्तः । छायायामुपविष्टः पतितश्च लोचने भ्रामयित्वा कुमारः । अत्रावसरे कुमारपुण्यानुभावेन वनवासिना यक्षेण जलमानीतम्, शिशिरशीतलजलेन सर्वाङ्गं सिक्तः, आश्वासितश्च । लब्धचेतनेन कुमारेण जलं पीतम्, पृष्टं च कस्त्वं ? कुतो वानीतं जलमिदं ? तेन भणितमहं यक्षोऽत्र निवासी, सलिलं चेदं मानसरोवरादानीतम् । कुमारेणोक्तं यदि मां तद्दर्शयसि, तदा तत्र मानसरोवरे प्रक्षालयामि मद्वपुः, येन तत्तापोऽपनयति । तत् श्रुत्वा यक्षेण करतलसम्पुटे गृहीत्वा नीतो मानसरोवरम् । तत्र व्यसनापतितोऽयमिति कृत्वा क्रुद्धेन वैताढ्यवासिनाऽसितयक्षेण समं कुमारस्य युद्धं जातम् । तथाहि___यक्षेण प्रथमं मोटिततरुः प्रचण्ड: पवनो मुक्तः, तेन नभःस्थलं बहुलधूल्यान्धकारितम् । ततो विमुक्ताट्टहासा ज्वलनज्वालापिङ्गलकेशा पिशाचा मुक्ताः, कुमारस्तैर्मनाग न भीतिं गतः । ततो नयनज्वालास्फुलिङ्गवर्षिभिर्नागपाशैः कुमारो यक्षेण बद्धः । जीर्णरज्जुबन्धनानीव तांस्त्रोटयति स्म कुमारः । ततः करास्फालनपूर्व मुष्टिमुदस्य यक्षः समायातः। तावता मुष्टिप्रहारेण कुमारस्तं खण्डीकृतवान् । पुनर्यक्षः स्वस्थो भूत्वा गुरुमत्सरेण कुमारं घनप्रहारेण हतवान् । तत्प्रहारातः कुमारच्छिन्नमूलदुम इव भूमौ निपतितः । ततो यक्षेण दूरमुत्क्षिप्य गिरिवरः कुमारस्योपरि क्षिप्तः । तेन दृढपीडिताङ्गोऽसौ निश्चेतनो जातः। ___अथ कियत्कालानन्तरं लब्धसंज्ञः कुमारस्तेन समं बाहुयुद्धं चकार।कुमारेण करमुद्गराहतो यक्षः प्रचण्डवाताहतचूत इव तथा भूमौ निपतितौ यथा मृत इव दृश्यते । परं दैवत्वात्स