________________
२८६]
[उत्तराध्ययनसूत्रे न मृतः, आराटिं कुर्वाणः स यक्षस्तथा नष्टो यथा पुनर्न दृष्टः कौतुकान्नभस्यागतविद्याधरैः पुष्पवृष्टिर्मुक्ता, उक्तं च जितो यक्षः कुमारेणेति ।
ततो मानससरसि यथेष्ट स्नात्वोत्तीर्णः कुमारो यावत्स्तोकं भूमिभागं गतस्तावत्तत्र वनमध्यगता अष्टौ विद्याधरपुत्रीदृष्टवान् । ताभिरप्यसौ स्निग्धदृष्ट्या विलोकितः । कुमारेण चिन्तितमेताः कुतः समायाताः सन्ति ? पृच्छाम्यासां स्वरूपमिति पृष्टं कुमारेण तासां समीपे गत्वा मधुरवाण्या, कुतो भवन्त्य आगताः ? किमर्थमेतच्छून्यमरण्यमलङ्कृतं ? ताभिर्भणितम्-महाभाग ! इतो नातिदूरे प्रियसङ्गमाभिधानास्माकं पुर्यस्ति, त्वमपि तत्रैवागच्छेति भणितः किङ्करीदर्शितमार्गस्तासां नगरी प्राप्तः । कञ्चकिपुरुषैः राजभुवनं नीतः, दृष्टश्च तन्नगरस्वामिना भानुवेगराज्ञा, अभ्युत्थानादिना सत्कृतश्च । उक्तं राजा-महाभाग! त्वमेतासां ममाष्टकन्यानां वरो भव । पूर्वं ह्यत्रायातेनार्चिमालिनाम्ना मुनिनैवमादिष्टम्-योऽसिताक्षं यक्षं जेष्यति स एतासां भर्ता भविष्यति । ततस्त्वमेताः परिणयेति नृपेणोक्ते कुमारेण तथेति प्रतिपन्नम् । राज्ञा महामहःपूर्वकं विवाहः कृतः, कङ्कणं कुमारकरे बद्धम्, सुप्तश्च ताभिः सार्धं रतिभवने कुमार: पल्यकोपरि। निद्राविगमे चात्मानं भूमौ पश्यति, किमेतदिति चिन्तितवांश्च, करबद्धं कङ्कणं च न पश्यति ।
___ ततः खिन्नमनाः कुमारस्ततो गन्तुं प्रवृत्तः ।अरण्यमध्ये च गिरिवरशिखरे मणिमयस्तंभप्रतिष्ठितं दिव्यभवनं दृष्टम् ।कुमारेण चिन्तितमिदमप्यालवालप्रायं भविष्यतीति तदासन्ने यावद्गन्तुं प्रवृत्तः कुमारस्तावत्तद्भवनान्तः करुणस्वरेण रुदन्त्या एकस्या नार्याः शब्द श्रुतवान् । प्रविष्टस्तद्भवनान्तः सप्तमभूमिमारूढः । रुदन्त्या तत्रैकया कन्यया भणितम्, कुरुजनपदनभस्तलमृगासनत्कुमार! त्वं भवान्तरेऽपि मम भर्ता भूया इति वारंवारं भणन्ती पुनर्गाढं रोदितुं प्रवृत्ता । ततो रुदन्त्यैव तयासनं दत्तम् । तत्रोपविश्य कुमारस्तां पृष्टवान्, सनत्कुमारेण सहतव कः सम्बन्धः? येन त्वं तमेवं स्मरसि ।सा प्राह-मम स मनोरथमात्रेण भर्ता । कथमिति कुमारेणोक्ते सा प्राह-अहं हि साकेतपुरस्वामिसुरथनामनरेन्द्रभार्याचन्द्रयशापुत्र्यस्मि । अन्यदाहं यौवनं प्राप्ता, पित्रा च मत्कृतेऽनेकराजकुमारचित्रपटरूपाणि दूतैरानीय दर्शितानि । एकमपि चित्रपटरूपं मम न रोचते । एकदा सनत्कुमारपट्टरूपं दूतैरानीय मे दर्शितम्, तदत्यन्तं मे रुरुचे । मोहिता चाहं तदूपमेव ध्यायन्ती स्वगृहे तिष्ठामि । तावदहमेकेन विद्याधरेण पितृगृहादाहृतात्रानीता । स्वयंविकुवितेऽस्मिन्नावासे मां मुक्त्वा स क्वचित् गतोऽस्ति यावत् सा कन्या वदन्त्यस्ति तावदशनिवेगसुतवज्रवेगेन विद्याधरेण तत्रागत्य सनत्कुमार उत्क्षिप्तो गगनमण्डले । सा च कन्या हाहारवं कुर्वाणा मूर्छापराधीना निपतिता पृथिवीपीठे।
___ तावदाकाशमार्गादागत्य सनत्कुमारेण स विद्याधरो मुष्टिप्रहारेण व्यापादितः। सनत्कुमारेण तस्यै स्ववृत्तान्तः कथितः, परिणीता च सा सुनन्दाभिधाना कन्या, सास्य स्त्रीरत्नं भविष्यति । स्तोकवेलायां तत्र वज्रवेगविद्याधरभगिनी सन्ध्यावली समागता । भ्रातरं व्यापादितं दृष्ट्वा कोपमुपागता । पुनरपीदं नैमित्तिकवचः स्मृतिपथमागतम्, यथा तव