________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८७ भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्तिं चकार।अहमिह त्वां विवाहार्थमायातास्मीति ।सनत्कुमारेण सा तत्रैव परिणीता ।अत्रान्तरे सनत्कुमारसमीपे द्वौ विद्याधरनृपौ समायातौ । ताभ्यां प्रणामपूर्वं कुमारस्यैवं भणितम्, देव ! अशनिवेगविद्याधरो विद्याबलज्ञातपुत्रमरणवृत्तान्तस्त्वया समं योद्धमायाति । ___अतश्चन्द्रवेग-भानुवेगाभ्यामावां हरिचन्द्र-चन्द्रसेनाभिधानौ निज पुत्रौ प्रेषितौ, रहसि सन्नाहश्च प्रेषितः । आवामस्मत्पितरौ च भवत्सेवार्थं सम्प्राप्ताः । तदनन्तरं तत्र समागतौ चन्द्रवेग-भानुवेगौ सनत्कुमारस्य साहाय्याय । सन्ध्यावल्या प्रज्ञप्तिविद्या दत्ता । चन्द्रवेगभानुवेगसहितः सनत्कुमारः सङ्ग्रामाभिमुख चलितः । तावताऽशनिवेगःसैन्यवृत्तः समायातः । तेन समं प्रथमं चन्द्रवेगभानुवेगौ योद्धं प्रवृत्तौ । चिरकालं युद्धं कृत्वा तयोर्बलं भग्नम् । ततः स्वयमुत्थितः सनत्कुमारः, तेनाशनिवेगेन समं घोरं युद्धमारब्धम् । प्रथमं महोरगास्त्रं कुमारस्याभिमुखं मुक्तम्, तच्च कुमारेण गरुडास्त्रेण विनिहतम् ।पुनस्तेनाग्नेयं शस्त्रं मुक्तम्, तत्कुमारेण वरुणास्त्रेण निहतम् ।पुनस्तेन वायव्यास्त्रं मुक्तम्, कुमारेण शैलास्त्रेण प्रतिहतम् । ततो गृहीतधनुर्बाणान्मुञ्चन् कुमारस्तं निर्जीवमिव चकार।पुनर्गृहीतकरवालः सनत्कुमारेण छित्रदक्षिणकरः कृतः। ततो द्वितीयकरण बाहुयुद्धमिच्छतस्तस्या-भिमुखमायातस्य कुमारेण चक्रेण शिरश्छिन्नम् । तदानीमशनिवेगविद्याधरलक्ष्मीरनेकविद्या-धरैः सहिता सनत्कुमारे सङ्क्रान्ता।
ततोऽशनिवेगं हत्वा चन्दवेगादिविद्याधरपरिवृतः सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः । दृष्टस्तत्र हर्षिताभ्यां सुनन्दासन्ध्यावलीभ्याम्, उक्तं च ताभ्यामार्यपुत्र ! स्वागतम् । अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः । सुखेनात्र विद्याधरराजसेवितः सनत्कुमारस्तिष्ठति । अन्यदा चन्द्रवेगेन विज्ञप्तः सनत्कुमारो यथा-देव ! मम पूर्वमर्चिमालिमुनिनैवमादिष्टम्, यथैदं तव कन्याशतं भानुवेगस्य चाष्टकन्या यः परिणेष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थश्चक्री भविष्यति । य इतो मासमध्ये मानसरोवरे समेष्यति, तत्र व्यसनापतितं सरसि स्नातमसिताक्षो यक्षः पूर्वभववैरी दक्ष्यति । स पूर्वभववैरी कथमिति सनत्कुमारेण पृष्टे चन्द्रवेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तान्तं प्राह
अस्ति काञ्चनपुरं नाम नगरम्, तत्र विक्रमयशोनामराजा, तस्य पञ्चशतान्यन्तःपुर्यो वर्तन्ते।तत्र नागदत्तनामा सार्थवाहोऽस्ति । तस्य रूपलावण्यसौभाग्ययौवनगुणैः सुरसुन्दरीभ्योऽधिका विष्णुश्रीनामभार्यास्ति । सान्यदा विक्रमयशोराज्ञा दृष्टा, मदनातुरेण तेन स्वान्तःपुरे क्षिप्ता । ततो नागदत्तस्तच्चिन्तयोन्मत्तीभूत एवं विलपति - हा चन्दानने ! क्व गता? दर्शनं मे देहीति विलपन् कालं नयति । विक्रमयशोराजा तु मुक्तसकलराज्यकार्योऽगणितजनापवादस्तया विष्णुश्रिया सहात्यन्तं रतिप्रसक्तः कालं नयति ।पञ्चशतान्तःपुरीणां नामापि न गृह्णाति ।