________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२८३ यज्जनुप्रमुखाः षष्टिसहस्रा भ्रातरः समकालं मरणं प्राप्ताः ? ज्ञानिना भणितम्-महाराज! एकदा महान् सङ्घश्चैत्यवन्दनार्थं सम्मेतपर्वते प्रस्थितः, अरण्यमुल्लझ्यान्तिमग्रामं प्राप्तः । तन्निवासिना सर्वेणानार्यजनेनात्यन्तमुपद्तो दुर्वचनेन वस्त्रानधनहरणादिना च । तत्प्रत्ययं तद्ग्रामवासिलोकैरशुभं कर्म बद्धम् । तदानीमेकेन प्रकृतिभद्रकेण कुम्भकारेणोक्तम्, मोपदवतेमं तीर्थयात्रागतं जनम्, इतरस्यापि निरपराधस्य परिक्लेशनं महापापस्य हेतुर्भवति, किं पुनरेतस्य धार्मिकजनस्य ? यतो यद्येतस्य सङ्घस्य स्वागतप्रतिपतिं कर्तुनशक्तास्तदोपदवं तु रक्षतेति भणित्वा कुम्भकारेण निवारितः स ग्रामजनः ।सङ्घस्ततोगतः ।अन्यदा तद्ग्रामनिवासिनैकेन नरेण राजसन्निवेशे चौर्यं कृतम्।ततो राजनियुक्तैः पुरुषैः सग्रामो द्वारपिधानपूर्वकं ज्वालितः। तदा स कुम्भकारः साधुप्रसिद्ध्या ततो निष्कासितोऽन्यस्मिन् ग्रामे गतः । तत्र षष्टिसहस्रजना दग्धाः, उत्पन्ना विराटविषयेऽन्ति-मग्रामे कोदवित्वेन । ताः क्रोद्रव्य एकत्र पुञ्जीभूताः स्थिताः सन्ति । तत्रैकः करी समायातः, तच्चरणेन ताः सर्वा अपि मर्दिताः। ततो मृतास्ते नानाविधासु दुःखप्रचुरासु योनिषु सुचिरं परिभ्रम्यानन्तरभवे किञ्चिच्छुभकर्मोपाय॑ सगरचक्रिसुतत्वेनोत्पन्नाः । षष्टिसहस्रप्रमाणा अपि ते तत्कर्मशेषवशेन तादृशं मरणव्यसनं प्राप्ताः ।सोऽपिकुम्भकारस्तदा स्वायुःक्षये मृत्वा एकस्मिन् सन्निवेशे धनसमृद्धो वणिग्जातः । तत्र कृतसुकृतो मृत्वा नरपतिः सञ्जातः । तत्र शुभानुबन्धेन शुभकर्मोदयेन प्रतिपन्नो मुनिधर्मं शुद्धं च परिपाल्य ततो मृत्वा सुरलोकं गतः । ततश्च्युतस्त्वं जनुसुतो जातः । इदं भगीरथिः श्रुत्वा संवेगमुपागतस्तमतिशयज्ञानिनं नत्वा गतः स्वभवनम् । इदं च भगीरथिपृच्छासंविधानकं प्रसङ्गत उक्तम् इति सगरदृष्टान्तः २ ॥३५॥
चइत्ता भारहं वासं, चक्कवट्टी महड्डिए ।
पव्वज्जमब्भुवगओ, मघवं नाम महाजसो ॥३६॥ पुनर्मघवानामा तृतीयचक्रवर्ती प्रव्रज्यां दीक्षामभ्युगतश्चारित्रं प्राप्तः कीदृशो मघवा ? महर्द्धिकश्चतुर्दशरत्ननवनिधानधारको बैक्रियर्द्धिधारी वा । पुनः कीदृशः ? महायशाविस्तीर्णकीर्तिः ॥३६॥ ...
अत्र मघवाख्यस्य चक्रिणो दृष्टान्त:
इहैव भरतक्षेत्रे श्रावत्स्यां नगर्यां समुद्रविजयस्य राज्ञो भद्रादेव्याः कुक्षौ चतुर्दशमहास्वप्नसूचितो मघवानामा चक्री समुत्पन्नः । स च यौवनस्थो जनकेन वितीर्णराज्यः क्रमेण प्रसाधितभरतक्षेत्रस्तृतीयश्चक्रवर्ती जातः । सुचिरं राज्यमनुभवतस्तस्यान्यदा भवविरक्ता जाता । स एवं भावयितुं प्रवृत्तः, येऽत्र प्रतिबन्धहेतवो रमणीयाः पदार्थास्तेऽस्थिराः उक्तं च -
"हियइच्छिया उ दारा, सुआ विणीया मणोरमा भोगा।
विउला लच्छी देहो, निरामओ दीहजीवित्तं ॥ १ ॥" १ "हितेच्छिता तु दारा, सुता विनीता मनोरमा भोगा। विपुला लक्ष्मी देहो, निरामयो दीर्घजीवितम् ॥१॥"