SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८२] [उत्तराध्ययनसूत्रे कथं मामनाथं मुक्त्वा यूयं गताः ? युष्मद्विरहातस्य मम दर्शनं ददत । हा निर्दय पापविधे ! एकपदेनैव सर्वांस्तान् बालकान् संहरतस्तव किं पूर्णं जातम् ! हा निष्ठुरहृदय ! असह्यसुतमरणसन्तप्तं त्वं किं न शतखण्डं भवसि ? एवं विलपमानश्चक्री तेन विप्रेण भणितः-महाराज! त्वं मम सम्प्रत्येवमुपदिष्टवान्, स्वयं च कथं शोकं गच्छसीति ? उक्तं च "परवसणंमि सुहेण, संसारासारत्तं कहइ लोओ। णियबंधुजणविणासे, सव्वस्सवि चलइ धीरत्तं ॥ १ ॥" ___ एकपुत्रस्यापि मरणं दुस्सहम्, किं पुनः षष्टिसहस्रपुत्राणां ? तथापि सत्पुरुषा व्यसनं सहन्ते । पृथिव्येव वज्रनिपातं सहते, नापर इति । अतोऽवलम्बस्व सुधीरत्वं, अलमत्र विलपितेन । यत उक्तं "सोयंताण पि नो ताणं, कम्मबंधो उ केवलो। तो पंडिया न सोयंति, जाणंता भवरूवयं ॥ १ ॥" एवमादिवचनविन्यासैविप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामन्तमन्त्रिणः, वदन्तु यथावृत्तं षष्टिसहस्रपुत्रमरणव्यतिकरम् ।तैरुक्तः सकलोऽपि तद्वयतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान् ।अत्रान्तरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिण एवं कथयन्ति, यथा देव ! यो युष्मदीयसुतैष्टापदरक्षणार्थं गङ्गाप्रवाह आनीतः, स आसन्नग्रामनगराण्यपद्रवति, तं भवान्निवारयत देव अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति । चक्रिणा स्वपौत्रो भगीरथिर्भणित:-वत्स! नागराजमनुज्ञाप्य दण्डरत्नेन गङ्गाप्रवाहं नय समुदम् । ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभक्तेन आराधितः समागतो नागराजो भणति-किं ते सम्पादयामि ? प्रणामपूर्व भगीरथिना भणितम्-तव प्रसादेनामंगङाप्रवाहमदधिनयामि। अष्यपदासन्नलोकानां महानपदवोऽस्तीति।नागराजेन भणितम्, विगतभयस्त्वं कुरु स्वसमीहितम् ! निवारयिष्याम्यहं भरतनिवासिनो नागान् । इति भणित्वा नागराजः स्वस्थानं गतः । भगीरथिनापि कृता नागानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागबलिं करोति। भगीरथिदण्डेन गङाप्रवाहमाकर्षन भचंचबहन स्थलशैलप्रवाहान प्राप्तः पर्वसमदम. तत्रावतारिता गङ्गा ।तत्र नागानां बलिपूजा विहिता। यत्र गङ्गा सागरे प्रवाहिता, तत्र गङ्गासागरतीर्थं जातम्।गङ्गा जनुनाऽऽनीतेति जाह्नवी, भगीरथिनाऽऽनीतेति भागीरथी।भगीरथिस्तदा मिलितै गैः पूजितो गतोऽयोध्याम् । पूजितश्चक्रिणा तुष्टेन स्थापितः स्वराज्ये । सगरचक्रवर्तिना श्रीअजितनाथतीर्थपति समीपे दीक्षा गृहीता । क्रमेण च कर्मक्षयं कृत्वा सगरः सिद्धः । अन्यदा भगीरथिना राज्ञा कश्चिदतिशयज्ञानी पृष्टः-भगवन् ! किं कारणं १ परव्यसने सुखेन, संसारासारत्वं कथयति लोकः। निजबन्धुजनविनाशे, सर्वस्याऽपि चलति धीरत्वम् ॥१॥ २ शोचतामपि न त्राणं, कर्मबन्धस्तु केवलः । तस्मात् पण्डिता न शोचन्ति, जानन्ता भवस्वरूपम् ॥२॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy