Book Title: Uttaradhyayan Sutram Part 01
Author(s): Vajrasenvijay, Bhagyeshvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२८८]
[ उत्तराध्ययनसूत्रे ___ अन्यदा ताभिः कार्मणादियोगेन विष्णुश्रीफ्पादिता । ततो राजा तस्या मरणेनात्यन्तं शोकातॊऽश्रुजलभृतनयनो नागदत्त इवोन्मत्तीभूतो विष्णुश्रीकलेवरं वह्निसात्कर्तुं न ददाति । ततो मन्त्रिभिर्नृपः कथमपि वञ्चयित्वाऽरण्ये तत्कलेवरं त्यक्तम् । राजा च तत्कलेवरमपश्यन् परिहृतान्नपानभोजनः स्थितः । मन्त्रिभिर्विचारितमेष तत्कलेवरदर्शनमन्तरेण मरिष्यतीत्यरण्ये नीत्वा राज्ञस्तत्कलेवरं दर्शितम् । राज्ञा तदानीं तत्कलेवरं गलत्पूतिनिवहं निर्यत्कृमिजालं वायसकर्षितनयनयुगलं चण्डखगतुण्डखण्डितं दुरभिगन्धं प्रेक्ष्यैवमात्मानं निन्दितुं प्रारब्धम् । रे जीव ! यस्य कृते त्वया कुलशीलजातियशोलज्जाः परित्यक्ताः, तस्येदृश्यवस्था जाता। ततो वैराग्यमार्ग प्राप्तो राजा राज्यं राष्ट्रं पुरमन्तःपुरं स्वजनवर्गं च परिहत्य सुव्रताचार्यसमीपे निष्क्रान्तः । ततश्चतुर्थषष्ठाष्टमादिविचित्रतपःकर्मभिरात्मानं भावयन् प्रान्ते संलेखनां कृत्वा सनत्कुमारदेवलोके गतः । ततश्च्युतो रत्नपुरे श्रेष्ठिसुतो जिनधर्मो जातः । स च जिनवचनभावितमनाः सम्यक्त्वमूलं द्वादशविधं श्रावकधर्मं पालयन् जिनेन्द्रपूजारतः कालं गमयति । इतश्च स नागदत्तः प्रियाविरहदुःखितो भ्रान्तचित्त आर्तध्यानपरिक्षिप्तशरीरो भूत्वा बहुतियंग्योनिषु भ्रान्त्वा ततः सिंहपुरे नगरेऽग्निशर्मनामा द्विजो जातः।
कालेन त्रिदण्डिव्रतं गृहीत्वा द्विमासक्षपणरतो रत्नपुरमागतः । तत्र हरिवाहनो नाम राजा तापसभक्तः, तेन तपस्यागतः श्रुतः, पारणकदिने राज्ञा निमन्त्रितः, स गृहमागतः । अत्रान्तरे स जिनधर्मनामा श्रावकस्तत्रागतः । तं दृष्ट्वा पूर्वभवजातवैरानुभवेन रोषारुणलोचनेन मुनिनैवमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदास्य श्रेष्ठिनः पृष्ठौ स्थालं विन्यस्य मां भोजय, अन्यथा नाहं भोक्ष्ये । राज्ञोक्तमसौ श्रेष्ठी महान् वर्तते, ततोऽपरस्य पुरुषस्य पृष्ठौ त्वं भोजनं कुरु।स प्राहैतस्य पृष्ठावेव भोजनं करिष्ये, नापरथेति । राज्ञा तापसानुरागेण तत्प्रतिपन्नम् । राज्ञो वचनात् श्रेष्ठिना पृष्ठौ स्थालमारोपितम् । तापसेन तत्पृष्ठौ दाहपूर्वकं भोजनं कृतम्।श्रेष्ठिना पूर्वभवदुष्कर्मफलं ममोपस्थितमिति मन्यमानेन तत्सम्यक् सोढमिति। स्थालीदाहेन तत्पृष्ठौ क्षतं जातम् । ततः स तापसस्तथा भुक्त्वा स्वस्थाने गतः । श्रेष्ठ्यपि स्वगृहे गत्वा स्वकुटुम्बवर्गं प्रतिबोध्य जैनदीक्षां जग्राह । ततो नगरान्निर्गतो गिरिशिखरे गत्वाऽनशनमुच्चचार।पूर्वदिगभिमुखं मासार्धं यावत्कायोत्सर्गेण स्थितः । एवं शेषास्वपि दिक्षु । ततः पृष्ठिक्षते काकशिवादिभिर्भक्षितः सम्यक् तत्पीडां सहमानो मृत्वा सौधर्मे कल्पे इन्द्रो जातः । स तापसोऽपि तस्यैव वाहनमैरावणो जातः । ततश्च्युतोऽथ स ऐरावणो नरतिर्यक्षु भ्रान्त्वाऽसिताक्षो जातः, शक्रोऽपि ततश्च्युत्वा हस्तिनागपुरे सनत्कुमारश्चक्री जातः ।
एवमसिताक्षयक्षस्य भवता सह वैरकारणमिति मुनिनोक्ते मया तवान्तरवासनिमित्तं भानुवेगं विसर्जयित्वा प्रियसङ्गमपुरीनिवेशपूर्वं तव भानुवेगेन कन्याः परिणायिताः, मुक्तो मयैव कारणेन त्वं तद्वने । ततो विज्ञापयामि देव ! मन्यस्व मे कन्याशतपाणिग्रहणं । ता अपि तत्र भवन्मुखकमलं पश्यन्ति । एवं भवत्विति कुमारेणोक्ते चन्द्रवेगः कुमारेण समं

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350