________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२७७ पुनः परमन्त्रेभ्यः प्रतिक्रमामि प्रतिनिवर्ते, परस्य - गृहस्थस्थ मन्त्राणि - कार्यालोचनानि तेभ्यः परमन्त्रेभ्यः, एभ्यः सर्वेभ्यः पराङ्मुखो भवामि ।'अहो' इति आश्चर्ये, अहोरात्रमुत्थितो धर्मं प्रत्युद्यतः कश्चिदेव महात्मैवंविधः स्यात्, इति विदन्निति जानस्तपश्चरेः, न तु प्रश्नमन्त्रादिके चरेः ॥३१॥
जं च मे पुच्छसि काले, सम्मं सुद्धेण चेयसा ।
ताई पाउकरे बुद्धे, तं नाणं जिणसासणे ॥३२॥ अथ संयतमुनिना पृष्टम्, त्वमायुः कथं जानासि ? तदा पुनः क्षत्रियमुनिराह-हे संयत ! त्वं मां काले इति कालविषयमायुर्विषयं ज्ञानं पृच्छसि । कीदृशस्त्वं ? सम्यक् शुद्धेननिर्मलेन चित्तेनोपलक्षितः, 'तमि' ति सूत्रत्वात्तद् ज्ञानं बुद्धः श्रीमहावीरः, अथवा बुद्धः श्रुतज्ञानवान् प्रादुरकरोत्, पुनस्तच्च ज्ञानं श्रीजिनशासने जानीहि । नापरस्मिन् कुत्रापि दर्शनेऽस्ति । ततोऽहं तत्र स्थितः, तत्प्रसादाद् बुद्धोऽस्मीति भावः ॥ ३२ ॥
किरियंच रोयए धीरो, अकिरियं परिवज्जए।
दिट्ठीए दिट्ठीसंपन्ने, धम्मं चर सुदुच्चरं ॥ ३३ ॥ धीरोऽक्षोभ्यः क्रियां जीवस्य विद्यमानतां-जीवसत्तां रोचयति, स्वयं स्वस्मै अभिलषयति, तथा परस्मै अप्यभिलषयतीत्यर्थः । अथवा क्रियां-सम्यगनुष्ठानरूपां प्रतिक्रमणप्रतिलेखनारूपां मोक्षमार्गसाधनभूतां ज्ञानसहितां क्रियां रोचयति । पुनरक्रियां जीवस्य नास्तित्वं -जीवे जीवस्याऽविद्यमानतां परिवर्जयेत्, अथवा अक्रियां मिथ्यात्विभिः कल्पितां कष्टक्रियामज्ञानक्रियां परित्यजेत् ।पुनर्धारः पुमान् दृष्ट्या-सम्यग्दर्शनात्मिकया दृष्टिसम्पन्नो भवति । दृष्टिः- सम्यग्ज्ञानात्मिका बुद्धिस्तया सम्पन्न:- सहितो दृष्टिसम्पन्नः, सम्यग्दर्शनेन सम्यग्ज्ञान-सहितः इत्यर्थः । तस्मात्त्वमपि सम्यग्ज्ञानदर्शनसहितः सन् सुदुश्चरं कर्तुमशक्यं धर्मं - चारित्रधर्मं चर-अङ्गीकुरु ॥ ३३ ॥ अथ क्षत्रियमुनिः संयतमुनि प्रति महापुरुषाणां धर्ममार्गप्रवर्तितानां दृष्टान्तेन दृढीकरोति ।
एयं पुण्णपयं सोच्चा, अत्थधम्मोवसोहियं ।
भरहोवि भारहं वासं, चिच्चा कामाई पव्वए ॥ ३४ ॥ हे मुने ! भरतोऽपि भरतनामा चक्र्यपि भारतं क्षेत्रं षट्खण्डद्धिं त्यक्त्वा, पुनः कामान् - कामभोगांस्त्यक्त्वा प्रवजितो दीक्षां प्रपन्न इत्यर्थः । किं कृत्वा ? एतत्पूर्वोक्तं पुण्यपदं श्रुत्वा, पुण्यं च तत्पदं च पुण्यपदम्, पुण्यं-पवित्रमान्निष्कलङ्क-निर्दूषणम्, अथवा पुण्यंपुण्यहेतुभूतम्, एतादृशं पदम्, पद्यते ज्ञायतेऽर्थोऽनेनेति पदं सूत्रं जिनोक्तमा-गमम्, क्रियावाद्यादिनानारुचिवर्जननिवेदकशब्दसूचनालक्षणम्, तत् श्रवणविषयीकृत्य ।अथवा पूर्ण पदम्, पूर्णपदं सम्पूर्णज्ञानम्, पदशब्देन ज्ञानमप्युच्यते । कीदृशं पुण्यपदम् ? अर्थधर्मोपशोभितम्, अर्थ्यते प्रार्थ्यते इत्यर्थः, स्वर्गापवर्गलक्षणः पदार्थः, धर्मस्तदुपायभूतः