________________
२७८]
[उत्तराध्ययनसूत्रे स्वर्गापवर्गप्राप्तिकारणभूतः, अर्थश्च धर्मश्चार्थधर्मों, ताभ्यामुपशोभितमर्थधर्मोपशोभितम् । एतादृशं जिनोक्तं सिद्धान्तमर्थधर्मसहितं श्रुत्वा यदि भरतश्चक्रधरः सम्पूर्णभरतक्षेत्रं षट्खण्डसाम्राज्यं त्यक्त्वा दीक्षां जग्राह, तदा त्वयाप्यस्मिन् जिनोक्तागमे चलितव्यम्, 'महाजनो येन गतः स पन्थेत्युक्तत्वात् । सकलनृपेषु ऋषभपुत्रो भरतो मुख्यस्तेनायं मार्गः समाश्रित इत्यर्थः ॥ ३४ ॥अथात्र भरतचक्रिणः कथा
अयोध्यायां नगर्यां श्री ऋषभदेवपुत्रः पूर्वभवकृतमुनिजनवैयावृत्त्यार्जितचक्रिभोगः प्रथमचक्री भरतनामास्ति तस्य नवनिधानानां चतुर्दशरत्नानां द्वात्रिंशत्सहस्रनरपतीनां द्विसप्ततिसहस्रपुरवराणां षण्णवतिकोटिग्रामाणां चतुरशीतिशतसहस्रहयगजरथानां षट्खण्डभरतस्यैश्वर्यं कुर्वतः स्वसम्पत्त्यनुसारेण साधर्मिकवात्सल्यं कुर्वतः, स्वयं कारिताष्टापदशिरःसंस्थितचतुर्मुखयोजनायामजिनायतनमध्यस्थापितनिजनिजवपु:प्रमाणोपेतश्रीऋषभादिचतुर्विंशतिजिनप्रतिमावन्दनार्चनं समाचरतः श्रीभरतचक्रिणः पञ्च पूर्वलक्षाण्यतिक्रान्तानि।
___ अन्यदा महाविभूत्योद्वर्तितदेहः सर्वालङ्कारविभूषितः स भरतचक्री आदर्शभवने गतः । तत्र स्वदेहं प्रेक्षमाणस्याङ्गुलीयकं पतितं, तच्च तेन न ज्ञातं । आदर्शभित्तौ स्वदेहं पश्यता तेन पतिता मुद्रिका स्वकराङ्गल्यशोभमाना दृष्टा । ततो द्वितीयाङ्गलीतोऽपि मुद्रिका-ऽपनीता। साप्यशोभमाना दृष्टा । ततः क्रमात्सर्वाङ्गाभरणान्युत्तारितानि ।तदा स्वशरीरमतीवाशोभमानं निरीक्ष्य संवेगमापनश्चक्री एवं चिन्तितुं प्रवृत्तः । अहो ! आगन्तुकद्रव्यैरेवेदं शरीरं शोभते, न स्वभावसुन्दरम् । अपि चैतच्छरीरसङ्गेन सुन्दरमपि वस्तु विनश्यति उक्तं च
मणुन्नं असणपाणं, विविहं खाइमसाइमं ।। सरीरसंगमावन्नं, सव्वंपि असुई भवे ॥ १ ॥ वरं वत्थं वरं पुष्फं, वरं गंधविलेवणं । विनस्सए सरीरेण. वरं सयणमासणं ॥ २ ॥ निहाणं सव्वरोगाणं, कयग्घमथिरं इमं ।
पंचासुहभूअमयं, अथक्क परिक्कमणं ।। ३ ।। तत एतच्छरीरकृते सर्वथा न युक्तमनेकपापकर्मकरणेन मनुष्यजन्महारणम् यत उक्तम्
"लोहाय नावं जलधौ भिनत्ति, सूत्राय वैडूर्यमणि दृणाति ।
सच्चंदनं प्लोषति भस्महेतो-र्यो, मानुषत्वं नयतीन्द्रियार्थे ॥ १ ॥" इत्यादिकं चिन्तयतस्तस्य भरतस्य प्राप्तभावचारित्रस्य प्रवर्धमानशुभाध्यवसायक्षपकश्रेणिप्रपन्नस्य केवलज्ञानमुत्पन्नम् शक्रस्तत्र समायातः, कथयति च द्रव्यलिङ्गं प्रपद्यस्व । येन दीक्षोत्सवं करोमि।ततो भरतकेवलिनास्वमस्तके पञ्चमौष्टिको लोचः कृतः,शासनदेव१ बृहच्छान्तौ द्वितीयगाथायां एष पाठोऽस्ति ॥