________________
अष्टादशं संयतीयाख्यमध्ययनम् १८ ]
[ २७९
तया च रजोहरणोपकरणानि दत्तानि । दशसहस्त्रराजभिः समं प्रव्रजितो भरतः । शेषचक्रिणस्तु सहस्रपरिवारेण प्रव्रजिताः । ततः शक्रेण वन्दितोऽसौ ग्रामाकरनगरेषु भ्रमन् भव्यसत्वान् प्रतिबोधयन् एकपूर्वलक्षं यावत् केवलिपर्यायं पालयित्वा परिनिर्वृतः । तत्पट्टे च शक्रेणादित्ययशा नृपोऽभिषिक्तः । इति भरतदृष्टान्तः ॥ ३४ ॥
पुनस्तदेव महापुरु षदृष्टान्तेन दृढयति
सगरो वि सागरंतं, भरहवासं नराहिवो ।
इस्सरियं केवलं हिच्चा, दयाइ परिनिव्वुडे ॥ ३५ ॥
हे मुने ! सगरोऽपि सगरनामा नराधिपोऽपि दयया संयमेन परिनिर्वृत्तः, कर्मभ्यो मुक्तः । अत्र नराधिपशब्देन अपिशब्दाद् द्वितीयश्चक्रवर्त्त्यधिकारादनुक्तोऽपि चक्र्येव गृह्यते । किं कृत्वा ? भरतवर्षं - भरत क्षेत्रमर्थाद्भरत क्षेत्रराज्यं त्यक्त्वा, पुनः केवलं परिपूर्णमेकच्छत्ररूपमैश्वर्यं हित्वा-त्यक्त्वा, कीदृशं भरतवर्षं ? सागरान्तं समुद्रान्तसहितम् चुल्लहिमवत्पर्वतं यावद्विस्तीर्णं भरतक्षेत्रराज्यमित्यर्थः ॥ ३५ ॥
अत्र सगरचक्रवर्तिदृष्टान्तः, तथाहि
अयोध्यायां नगर्यामीक्ष्वाकुकुलोद्भवो जितशत्रुनृपोऽस्ति, तस्य भार्या विजयानाम्यस्ति । सुमित्रनामा जितशत्रुसहोदरो युवराजो वर्तते, तस्य यशोमतीनाम्नी भार्यास्ति । जितशत्रुराज्ञ्या विजयानाम्न्या चतुर्दशमहास्वप्नसूचितः पुत्रः प्रसूतः, तस्य नामाऽजित इति दत्तम्, स च द्वितीयस्तीर्थकर इति । सुमित्रयुवराजपल्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः । तौ द्वावपि यौवनं प्राप्तौ, पितृभ्यां कन्याः परिणायिताः । कियता कालेन जितशत्रुराज्ञा निजे राज्येऽजितकुमारः स्थापितः, सगरश्च यौवराज्ये स्थापितः । सहोदरसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता । अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तनसमये स्वराज्ये सगरं स्थापयित्वा दीक्षा गृहीता । सगरस्तूत्पन्नचतुर्दशरत्नः साधितषट्खण्डभरतक्षेत्रो राज्यं पालयति । तस्य पुत्राः षष्टिसहस्त्रसङ्ख्याका जाताः, सर्वेषां तेषां मध्ये ज्येष्ठो जहूनुकुमारो वर्तते । अन्यदा जहूनुकुमारेण कथञ्चित्सगरः सन्तोषितः । स उवाच जहूनुकुमार ! यत्तव रोचते तन्मार्गय ? जहूनुरुवाच- तात ! ममास्त्ययमभिलाषः । यत्तातानुज्ञातोऽहं चतुर्दशरत्नसहितोऽखिलभ्रातृपरिवृतः पृथ्वीं परिभ्रमामि । सगरचक्रिणा तत्प्रतिपन्नम् ।
प्रशस्ते मुहुर्ते समरचक्रिणः समीपात्स निर्गतः, सबलवाहनोऽनेकजनपदेषु भ्रमन् प्राप्तोऽष्टापदपर्वते । सैन्यमधस्तान्निवेश्य स्वयमष्टापदपर्वतमारूढः दृष्टवांस्तत्र भरतनरेन्द्रकारितं मणिकनकमयं चतुर्विंशतिजिनप्रतिमाधिष्ठितं स्तूपशतसङ्गतं जिनायतनम् । तत्र जिनप्रतिमा अभिवन्द्य जहूनुकुमारेण मन्त्री पृष्टः, केन सुकृतवतेदमतीवरमणीयं जिनभवनं कारितम् ? मन्त्रिणा कथितं भवत्पूर्वजेन श्रीभरतचक्रिणेति श्रुत्वा जहूनुकुमारोऽवदत्-अन्यः कश्चिदष्टापदसदृशः पर्वतोऽस्ति ? यत्रेदृशमन्यं चैत्यं कारयामः । चतसृषु दिक्षु पुरुषास्तद्गवेषणाय