________________
२८०]
[उत्तराध्ययनसूत्रे प्रेषिताः, ते सर्वत्र परिभ्रम्य समायाताः, ऊचुश्च स्वामिन् ! ईदृशः पर्वतः क्वापि नास्ति, जहूनुना भणितं यद्येवं वयं कुर्म एतस्यैव रक्षाम् । यतोऽत्र क्षेत्रे कालक्रमेण लुब्धाः शठाश्च नरा भविष्यन्ति । अभिनवकरणात्पूर्वकृतपरिपालनं श्रेयः । ततश्च दण्डरनं गृहीत्वा समन्ततोऽष्टापदपार्श्वेषु जहुनुप्रमुखाः सर्वेऽपि कुमाराः खातुं लग्नाः। तच्च दण्डरनं योजनसहस्रं भित्त्वा प्राप्तं नागभवनेषु, तेन तानि भिन्नानि दृष्ट्वा नागकुमाराः शरणं गवेषयन्तो गता नागराजज्वलनप्रभसमीपे, कथितः स्वभवनविदारणवृत्तान्तः।सोऽपि सम्भ्रान्त उत्थितोऽवधिना ज्ञात्वा क्रोधोद्धरसमागतःसगरसुतसमीपम् भणितवांश्च भो भो किंभवद्भिर्दण्डरत्नेन पृथ्वी विदार्यास्मद्भवनोपदवः कृतः ? अविचार्यं भवद्भिरेतत्कृतम् । यत उक्तं
'अप्पवहाए नूणं होइ, बलं गर्वितानाम् भुवर्णमि ।
णियपक्खबलेणं चिय, पडइ पयंगो पईवंमि ॥ १ ॥ ततो नागराजोपशमननिमित्तं जनुना भणितम् भो नागराज ! कुरु प्रसादम्, उपसंहर क्रोधसम्भरम्, क्षमस्वास्मदपराधमेकम्, न ह्यस्माभिर्भवतामुपद्रवनिमित्तमेतत्कृतम्, किन्त्वष्टापदचैत्यरक्षार्थमेषा परिखा कृता । न पुनरेवं करिष्यामः । तत उपशान्तकोपो ज्वलनप्रभः स्वस्थानं गतः । जनुकुमारेण भ्रातृणां पुर एवं भणितम्, एषा परिखा दुर्लङ्घ्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः दण्डरत्नेन गङ्गां भित्त्वा जनुना जलमानीतम्, भृता च परिखा। तज्जलं नागभवनेषु प्राप्तम्, जलप्रवाहसन्त्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यन्तं प्रेक्ष्य प्रदत्तावधिज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलनप्रभ एवमचिन्तयत् यदहो ! एतेषां जनुकुमारादीनां महापापानां मयैकवारमपराधः क्षान्तः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलम्। ___ इति ध्यात्वा ज्वलनप्रभेण तद्वधार्थं नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलान्तनिर्गत्य नयनैस्ते कुमाराः प्रलोकिताः, भश्मराशीभूताश्च सर्वेऽपि सगरसुताः । तथाभतांस्तान वीक्ष्य सैन्ये हाहारवो जातः, मन्त्रिणोक्तमेते त तीर्थरक्षां कर्वन्तोऽवश्यभावितयेमामवस्थां प्राप्ताः सद्गतावेव गता भविष्यन्तीति किं शोच्यते? अतस्त्वरितमितः प्रयाणं क्रियते, गम्यते च महाराजचक्रिसमीपम् । सर्वसैन्येन मन्त्रिवचनमङ्गीकृतम्, ततस्त्वरितप्रयाणकरणेन क्रमात्प्राप्तं स्वपुरसमीपे ।ततः सामन्तामात्यादिभिरेवं विचारितं समस्तपुत्रवधोदन्तः कथं चक्रिणो वक्तुं पार्यते ? ते सर्वे दग्धाः, वयं चाक्षताङ्गाः समायाता एतदपि प्रकामं त्रपाकरम् । ततः सर्वेऽपि वयं प्रविशामोऽग्नौ । एवं विचारयतां तेषां पुरः समायात एको द्विजः । तेनेदमुक्तम्-भो वीराः ! किमेवमाकुलीभूताः ? मुञ्चत विषादम्, यतः संसारे न किञ्चित्सुखम्, दुःखमत्यन्तमद्भुतमस्ति, भणितं च
"कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं ।
तं नत्थि संविहाणं, जं संसारे न संभवइ ।। १ ।।" १ आत्मवधार्थं नूनं, भवति बलं गर्वितानां भुवने । निजपक्षबलेन चैव, पतति पतङ्गः प्रदीपे ॥१॥