SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७६] [उत्तराध्ययनसूत्रे कथं जानामीत्याह अहमासि महापाणे, जुइमं वरिससओवमे । ... जा सा पाली महापाली, दिव्वा वरिसंसओवमा ॥२८॥ हे मुने ! अहं महाप्राणे विमाने पञ्चमे ब्रह्मलोके देव आसम् । कथंभूतोऽहं ? द्युतिमान्, द्युतिविद्यते यस्य स द्युतिमांस्तेजस्वी । पुनः कथंभूतोऽहं ? वर्षशतोपमो वर्षशत जीविनः पुरुषस्योपमा यस्यासौ वर्षशतोपमः। कोऽर्थः ? यथेह वर्षशतजीवीदानी परिपूर्णायुरुच्यते, तथाहं तत्र विमाने परिपूर्णायुरभवम् । तत्र या पालिमहापालिश्च, सा दिव्या स्थितिर्मेऽभूदिति शेषः । पालिशब्दस्य कोऽर्थः ? पालिरिव पालिर्जीवितजलधारणात्, पालिशब्देन भवस्थितिः कथ्यते, सा चेह पल्योपमप्रमाणा, महापालिः सागरोपम प्रमाणा स्थितिः कथ्यते । दिवि भवा दिव्या, देवसम्बन्धिनी स्थितिरित्यर्थः । कथंभूता पालिमहापालिश्च ? वर्षशतोपमा, वर्षशतैः केशोद्धारहेतुभिरुपमीयते या सा वर्षशतोपमा, द्विविधापि दिव्या भवस्थितिस्तत्रास्ति । परं मे महापालिदिव्या भवस्थितिरासीदित्याम्नायः, दशसागरायुरहमासमित्यर्थः ॥ २८ ॥ से चुए बंभलोगाओ, माणुस्सं भवमागओ। अप्पणो य परेसिं च, आउं जाणे जहा तहा ॥२९॥ 'से' इति सोऽहमित्यध्याहारः सोऽहं ब्रह्मलोकात्पञ्चमदेवलोकाच्च्युतः सन् मानुष्यं भवं नरसम्बन्धिजन्म समागतः, आत्मनश्च पुनः परेषां च यथा 'यथायुर्जीवितं वर्तते तथा जानामि, यस्य मानवस्य येन प्रकारेणायुरस्ति, तस्य तेन प्रकारेण सर्वं जानामि, परं विपरीतं न जानामि, सत्यं जानामि ॥२९॥ नाणारुइं च छंदं च, परिवज्जेज्ज संजए । अणट्ठा जे य सव्वत्था, इइ विज्जामणुसंचरे ॥३०॥ हे मुने ! संयतसाधो ! नानारुचिं-क्रियावाद्यादिमतविषयमभिलाषं परिवर्जयेः । च पुनश्छन्दः- स्वमतिकल्पिताभिप्रायं नानाविधं परिवर्जयेः । च पुनर्येऽनर्था अनर्थहेतवो ये सर्वार्था अशेषहिंसादयो गम्यत्वात्तान् परिवर्जयेरिति सम्बन्धः । इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपामनुलक्ष्यीकृत्य सञ्चरेस्त्वं संयमाध्वनि यायाः।अहमपीति विद्यां - ज्ञानं ज्ञात्वाङ्गीकृत्य संयममार्गे यामीति त्वयापि तथैव सञ्चरितव्यमिति हार्दम् ॥३०॥ पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उठ्ठि अहोरायं, इइ विज्जा तवं चरे॥३१॥ पुनः स्वाचारं वक्ति-हे मुने ! अहं 'पसिणाणं' इति प्राकृतत्वाद्विभक्तिव्यत्ययः । प्रश्नेभ्यः- शुभाशुभसूचकाङ्गष्ठादिपृच्छाभ्यः प्रतिक्रमामि - पराङ्मुखो भवामि । वाथवा १ तथा-D.L.॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy