________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२७५ परि-समन्ताच्छीतीभूतः, पुनः कीदृशो ज्ञातकः ? विद्याचरणसम्पन्नाः, विद्याशब्देन क्षायकोत्तमज्ञानम्, चरणं-यथाख्यातचारित्रम्, ताभ्यां सम्पन्नः- सहितः, पुनः कीदृशः ? सत्यः सत्यवचनवादी, पुनः कीदृशः? सत्यपराक्रमः सत्यवीर्यसहितः ॥२४॥ तेषां फलमाह -
पडंति नरए घोरे, जे नरा पावकारिणो ।
दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥ पुनः क्षत्रियमुनिर्वदति, हे महामुने ! ये पापकारिणो नराः पापमसत्प्ररूपणं कुर्वन्तीत्येवंशीलाः पापकारिणो ये नरा भवन्ति, ते नरा घोरे-भीषणे नरके पतन्ति, च पुनर्धर्म सत्यप्ररूपणारूपं चरित्ता' आराध्य दिव्यां-दिवः सम्बन्धिनीमुत्तमां गतिं गच्छन्ति । कथंभूतं धर्मं ? 'आरियं' आर्य वीतरागोक्तमित्यर्थः । अत्र पापमसत्यवचनं ज्ञेयम्, धर्मं च सत्यवचनं ज्ञेयम् । एवं ज्ञात्वा भो संयत ! भवता सत्यप्ररूपणापरेणैव भाव्यमित्यर्थः ॥ २५ ॥ कथममी पापकारिणः? इत्याह
मायावुइयमेयं तु, मुसा भासा निरत्थिया ।
संजममाणो वि अहं, वसामि इरियामि य ॥ २६ ॥ एतक्रियाऽक्रियाविनयाऽज्ञानवादिनां मायोक्तम्, मायया-कपटेनोक्तं मायोक्तं शाठ्योक्तं ज्ञेयम्, एते सर्वेऽपि कपटेन मृषां भाषन्ते इत्यर्थः । एतेषां क्रियावादिनां तु तस्मात्कारणान्मृषा भाषा-असत्या भाषा निरर्थका सत्यार्थरहिता । अपि निश्चयेन तेनैव कारणेन हे साधो ! संयच्छन पापान्निवर्तितः सन, तेषां पाखण्डिनामसत्प्ररूपणातो निवर्तितः सन्नहं वसामि. निरवद्योपाश्रयादौ तिष्ठामि । अत्राहं पाखण्डिनां वाक्यरूपपापान्निवत्तः सन् तिष्ठामीत्युक्तम्, तत्तस्य स्थिरीकरणार्थम् । यथाहमसत्प्ररूपणातो निवृत्तस्तथा त्वयापि निवर्तितव्यमित्यर्थः । यतः साधुः स्वयं साधुमार्गे स्थितोऽपरमपि साधुमार्गे स्थापयति । च पुनर्हे साधो ! अहं 'इरियामि' ति ईर्यया गच्छामि, गौचर्यादौ भ्रमामि ॥ २६ ॥
सव्वे ते विइया मझं, मिच्छादिट्ठी अणारिया । विज्जमाणे परे लोए, सम्मं जाणामि अप्पगं ॥ २७ ॥ हे साधो ! ते सर्वेऽपि क्रियाऽक्रियाविनयाऽज्ञानवादिनश्चत्वारोऽपि पाखण्डिनो मया विदिता - ज्ञाताः।एते चत्वारोऽपि मिथ्यादृष्टयो-मिथ्यादर्शनयुक्ताः ।पुनरेते चत्वारोऽप्यनार्या अनार्यकर्मकर्तारः, सम्यग्मार्गविलुम्पकाः । मयैते यादृशाः सन्ति तादृशा ज्ञाताः । पुन: मुने ! परलोके विद्यमाने सम्यक्प्रकारेण 'अप्पगं' आत्मानं स्वस्य परस्य च जानामि । आत्मा परलोकादागतस्ततोऽहं परलोकमात्मानं च सम्यग् जानामि । तेन कुतीथिनोऽपि सम्यग् ज्ञाताः, तेन कुतीथिनां सङ्गं न करोमि ॥ २७ ॥