SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७४] [ उत्तराध्ययनसूत्रे नामानः । कीदृशा मम गुरवः ? विद्याचरणपारगाः, विद्या च चरणं च विद्याचरणे, तयोः पारगा विद्याचरणपारगाः । विद्या- श्रुतज्ञानं, चरणं चारित्रम्, तयोः पारगामिनः । अयमाशयः - अहं तैर्गर्दभालिनामाचार्यैर्जीवघातान्निवर्तितः, तन्निवृत्तौ मुक्तिफलमुक्तं च । ततस्तदर्थं माहनोऽस्मि । यथा 'तदुपदेशं ( तथा ) गुरुन् प्रतिचरामि, तदुपदेशसेवनाच्च विनीतोऽस्मीति भावः ॥ २२ ॥ अथ तद्गुणबहुमानतोऽपृष्टोऽपि क्षत्रियमुनिराह किरियं १ अकिरियं २ विणयं ३, अन्नाणं ४ च महामुणी । एएहिं चउहिं ठाणेहिं, मेयने किं पभासई ॥ २३ ॥ हे संयतमहामुने ! एतैश्चतुर्भिः स्थानैर्मिथ्यात्वाधारभूतैर्हेतुभिः कृत्वा मेयज्ञाः किं प्रभाषन्ते ? मेयं जीवादिवस्तु जानन्तीति मेयज्ञा:- पदार्थज्ञाः कुतीर्थ्या वादिनः कुत्सितं प्रजल्पन्ते । एतावता एतैश्चतुर्भिर्हेतुभिर्मिथ्यात्विनः सर्वे त्रिषष्ट्युत्तरत्रिशतभेदाः (३६३) पाखण्डिनो यथावस्थिततत्वमजानाना यथातथा प्रलापिनः सन्ति, ते त्वया ज्ञातव्याः । तानि कानि चत्वारि स्थानानि ? क्रिया जीवादिसत्तारूपा १, पश्चादक्रिया जीवादिपदार्थानामक्रिया नास्तित्वरूपा २, विनयं सर्वेभ्यो नमस्कारकरणम् ३, अज्ञानं सर्वेषां पदार्थानामज्ञानं भव्यम् ४, एते ह्येकान्तवादित्वेन मिथ्यात्विनो ज्ञेयाः । कुत्सितभाषणं ह्येतेषां विचारस्याऽसहत्वात् । यतो हि सर्वथा सर्वत्र सत्तायाः सत्वात्सर्वत्र जीवः स्यात्, अजीवेऽपि जीवबुद्धिः स्यात् १ । पुनर्नास्तित्वे आत्मनो नास्तित्वेऽस्य प्रमाणबाधितत्वाच्च जीवाजीवयोरुभयोरपि सादृश्यं नास्तित्वं स्यात् २ । सर्वत्र विनये क्रियमाणे निर्गुणे विनयस्याऽशुभफलत्वात्, विनयोऽपि स्थाने एव कृतः फलदः, तस्मादेकान्तं विनयोऽपि न श्रेष्ठः ३ । अज्ञानं हि मुक्तिसाधने कारणं नास्ति, मुक्तेर्ज्ञानस्यैव कारणत्वात् हेयोपादेयपदार्थयोरपि ज्ञानैव साध्यत्वात्, ज्ञानं विना हितमपि न जानाति, तस्मादज्ञानमपि न श्रेष्ठम् ४ । तस्मात्क्रियावादिनः १, अक्रियावादिनः २, विनयवादिनः ३, अज्ञानवादिनश्च ४, सर्वेऽप्येते एकान्तवा - दिनो मिथ्यात्वनः कुतीर्थिनः कुत्सितभाषिणो ज्ञेयाः । एतेषां पाखण्डिनां सर्वे भेदाः (३६३) त्रिषष्ट्युत्तरत्रिशतप्रमिता भवन्ति । तत्र क्रियावादिनां १८०, अक्रियावादिनां ८४, विनयवादिनां ३२, अज्ञानवादिनां ६७, कुत्सितभाषितं हि न चैतत् स्वाभिप्रायेण, किन्तु भगवद्वचसैतेषां कुत्सितभाषितम् ॥ २३ ॥ तदाह इइ पाउकरे बुद्धे, नायए परिनिव्वुए । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ इत्येते क्रियावादिनः कुत्सितं प्रभाषन्ते, इत्येवंरूपं वचनं बुद्धो-ज्ञाततत्त्वो ज्ञातकः श्रीमहावीरः प्रादुरकरोत् प्रकटीचकार । कीदृशो ज्ञातकः ? परिनिर्वृतः, कषायाभावात् १ तदुपदेशानुसारतो - मु० ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy