________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२७३ ___स संयतो राजा 'महया' इति महासंवेगनिर्वेदं समापन्नः, संवेगश्च निर्वेदश्च संवेगनिर्वेदम् संवेगः-मोक्षाभिलाषः,-निर्वेदः-संसारादुद्विग्नता, स राजा उभयं प्राप्त इत्यर्थः । किं कृत्वा ? तस्यानगारस्य साधोरन्तिके - समीपे धर्मं श्रुत्वा ॥१८॥
संजओ चइउं रज्जं, निक्खंतो जिणसासणे ।
गद्दभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥ संयतो राजा गर्दभालिनाम्नोऽनगारस्यान्तिके - समीपे जिनशासने - वीतरागधर्मे निष्क्रान्तः समागतः, संसाराद् गृहाच्च निःसृतः, जैनी दीक्षामाश्रितः । किं कृत्वा ? राज्यं त्यक्त्वा ॥१९॥
चिच्चा टुं पव्वईओ, खत्तिओ परिभासई।
जहा ते दीसई रूवं, पसन्नं ते तहा मणो ॥२०॥ अत्र वृद्धसम्प्रदायोऽयमस्ति-स संयतराजर्षिर्गर्दभालिनामाचार्यस्य शिष्यो जातः, पश्चाद् गीतार्थो जातः, समस्तसाध्वाचारविचारदक्षो गुरोरादेशेनैकाकी विहरनेकस्मिन् ग्रामे एकदा समागतोऽस्ति।तत्र ग्रामे क्षत्रियराजर्षिमिलितः,स क्षत्रियसाधःसंयतमनिं प्रतिभाषतेवदति।परंस क्षत्रियमुनिः कीदृशोऽस्ति ? स हि पूर्वजन्मनि वैमानिक आसीत्, ततश्च्युत्वैकस्मिन् क्षत्रियकुले समुत्पन्नः, तत्र कुतश्चित्तथाविधनिमित्तदर्शनादुत्पन्नजातिस्मृतिस्ततः समुत्पन्नवैराग्यो राज्यं त्यक्त्वा प्रवजितः, स क्षत्रियो राजर्षिरनिर्दिष्टनामा क्षत्रियजातिविशिष्टत्वात क्षत्रियमनिर्जातिस्मतिज्ञानवान.स संयतं मनिं दृष्ट्वा परिभाषते संयतस्य ज्ञानपरीक्षां कर्तुं, संयतमुनिमित्यध्याहारः । किं परिभाषते ? तदाह-हे साधो ! यथा येन प्रकारेण 'ते'तव रूपं - बाह्याकारं दृश्यते, तथा तेन प्रकारेण तव मनः प्रसन्नं -विकाररहितं वर्तते । अन्तःकालुष्ये ह्येवं प्रसन्नताऽसम्भवात् ॥२०॥ पुनः किं परिभाषते ? इत्याह- ..
किं नामे कि गोत्ते, कस्सट्टाए व माहणे ।
कहं पडियरसि बुद्धे, कहं विणीए त्ति वुच्चसि ॥२१॥ हे साधो ! तव किं नाम ? तव किं गोत्रम् ? पुनः 'कस्सट्टाए' इति कस्मै अर्थाय वा त्वं माहनः प्रव्रजितोऽसि ? हे साधो ! त्वं बुद्धान् कथं प्रतिचरसि ? त्वमाचार्यान् केन प्रकारेण सेवसे ? पुनर्हे साधो ! त्वं कथं विनीत इत्युच्यसे ? अहं त्वां पृच्छामि ॥ २१ ॥ .....संजओ नाम नामेणं, तहा गोत्तेण गोयमो ।
गद्दभाली ममायरिया, विज्जाचरणपारगा ॥ २२ ॥ अथ क्षत्रियसाधोः प्रश्नान्तरं संयतसाधुरुवाच । हे साधो ! अहं संयत इति नाम्नाऽभिधानेन नाम प्रसिद्धोऽस्मि । तथा पुनरहं गोत्रेण गौतमोऽस्मि । ममाचार्या गुरवो गर्दभालि૩૫