________________
२७२]
[उत्तराध्ययनसूत्रे हे राजन् ! दारा:-स्त्रियः, च पुनः सुता-आत्मजाः, पुनर्मित्राणि,तथा बान्धवा ज्ञातयो भ्रातृप्रमुखाः, एते सर्वेऽपि जीवन्तं मनुष्यमनुजीवन्ति, जीवतो - धनवतः पुरुषस्य पृष्टे उदरपूर्ति कुर्वन्ति, तस्य द्रव्यं भुञ्जतीत्यर्थः । परं तं पुरुषं मृतं नानुव्रजन्ति, मृतस्य तस्य पुरुषस्य पृष्टे केऽपि न व्रजन्तीत्यर्थः । तदाऽन्यद् गृहादिकं किं पुनः सह यास्यतीति ? अतः कृतजेष्वादरो न विधेयः, तस्मात्परिकरे को रागः कर्तव्यः ॥१४॥
नीहरंति मयं पुत्ता, पियरं परमदुक्खिया ।
पियरो वि तहा पुत्तो, बंधू रायं तवं चरे ॥ १५ ॥ हे राजन् ! पुत्रा मृतं पितरं नीहरन्ति-गृहानिष्कासयन्ति । कीदृशाः पुत्राः ? परमदुःखिता अत्यन्तं शोकार्दिताः, पितरोऽपि-जनका अपि, तथा तेन प्रकारेण पुत्रान् मृतान्निष्कासयन्ति । एवं बान्धवा बान्धवान् मृतानिष्कासयन्ति । तस्मादेवं ज्ञात्वा हे राजंस्तपश्चरेत्तपः कुर्वित्यर्थः ॥१५॥
तओ तेणज्जिए दव्वे, दारे य परिक्खिए।
कीलंतऽन्ने नरा रायं, हट्टतुट्ठमलंकिया ॥ १६ ॥ ततो निःसरणानन्तरं तेनैव पित्राद्यर्जितधनेन, च पुनर्दारेषु-स्त्रीषु हे राजन् ! अन्ये नराः क्रीडन्ति, स्वामिनि मृते सति तस्य धने तस्य स्त्रीषु चापरे मनुष्या हृष्टतुष्टं यथा स्यात्तथा हर्षिताः सन्तुष्टाः सन्तोऽलङ्कृता अलङ्कारयुक्ताः सन्तश्च क्रीडां कुर्वन्ति । कथंभूते धने ? परिरक्षिते, समस्तप्रकारेण चौराग्निप्रमुखेभ्यो रक्षिते । यावत्स जीवति तावद्धनस्य स्त्रीणां च रक्षां कुरुते, मृते सत्यन्ये भुञ्जन्ति, धनस्त्रीप्रमुखाः पदार्थास्तत्रैव तिष्ठन्ति, न च सार्थे समायान्ति । कोऽर्थः ? वराको जनो दुःखेन दव्यमुत्पाद्य यत्नेन रक्षति, दारानपि जीवितव्यमिव रक्षति, अलङ्कारैर्नवै रञ्जयति । तस्मिन् मृते सति तेनैव वित्तेन तैरेव दारैश्च, अन्ये हृष्टाः-शरीरे पुलकादिमन्तः, तुष्टा-आन्तरप्रीतिभाजोऽलङ्कृता विभूषिताः सन्तो रमन्ते, यत ईदशी भवस्थितिरस्ति । ततो हे राजंस्तपश्चरेत्तपः कुर्यादिति सम्बन्धः ॥१६॥
तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं ।
कम्मुणा तेणसंजुत्तो, गच्छई उ परं भवं ॥१७॥ तेनापि मरणोन्मुखेन जीवेन यच्छुभं कर्म, अथवाऽशुभं कर्म कृतं भवेत्, सुखं दुःखं वोपार्जितं स्यात्, तेन शुभाशुभलक्षणेन कर्मणा संयुक्तः सन् स जीवः परभवं गच्छति, एतावता जीवस्य सार्थेऽन्यत्किमपि नायाति, स्वोपार्जितं शुभाशुभं कर्म सार्थे समागच्छति ॥१७॥
सोऊण तस्स सो धम्मं, अणगारस्स अंतिए। महया संवेगनिव्वेयं, समावन्नो नराहिवो ॥१८॥