SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७२] [उत्तराध्ययनसूत्रे हे राजन् ! दारा:-स्त्रियः, च पुनः सुता-आत्मजाः, पुनर्मित्राणि,तथा बान्धवा ज्ञातयो भ्रातृप्रमुखाः, एते सर्वेऽपि जीवन्तं मनुष्यमनुजीवन्ति, जीवतो - धनवतः पुरुषस्य पृष्टे उदरपूर्ति कुर्वन्ति, तस्य द्रव्यं भुञ्जतीत्यर्थः । परं तं पुरुषं मृतं नानुव्रजन्ति, मृतस्य तस्य पुरुषस्य पृष्टे केऽपि न व्रजन्तीत्यर्थः । तदाऽन्यद् गृहादिकं किं पुनः सह यास्यतीति ? अतः कृतजेष्वादरो न विधेयः, तस्मात्परिकरे को रागः कर्तव्यः ॥१४॥ नीहरंति मयं पुत्ता, पियरं परमदुक्खिया । पियरो वि तहा पुत्तो, बंधू रायं तवं चरे ॥ १५ ॥ हे राजन् ! पुत्रा मृतं पितरं नीहरन्ति-गृहानिष्कासयन्ति । कीदृशाः पुत्राः ? परमदुःखिता अत्यन्तं शोकार्दिताः, पितरोऽपि-जनका अपि, तथा तेन प्रकारेण पुत्रान् मृतान्निष्कासयन्ति । एवं बान्धवा बान्धवान् मृतानिष्कासयन्ति । तस्मादेवं ज्ञात्वा हे राजंस्तपश्चरेत्तपः कुर्वित्यर्थः ॥१५॥ तओ तेणज्जिए दव्वे, दारे य परिक्खिए। कीलंतऽन्ने नरा रायं, हट्टतुट्ठमलंकिया ॥ १६ ॥ ततो निःसरणानन्तरं तेनैव पित्राद्यर्जितधनेन, च पुनर्दारेषु-स्त्रीषु हे राजन् ! अन्ये नराः क्रीडन्ति, स्वामिनि मृते सति तस्य धने तस्य स्त्रीषु चापरे मनुष्या हृष्टतुष्टं यथा स्यात्तथा हर्षिताः सन्तुष्टाः सन्तोऽलङ्कृता अलङ्कारयुक्ताः सन्तश्च क्रीडां कुर्वन्ति । कथंभूते धने ? परिरक्षिते, समस्तप्रकारेण चौराग्निप्रमुखेभ्यो रक्षिते । यावत्स जीवति तावद्धनस्य स्त्रीणां च रक्षां कुरुते, मृते सत्यन्ये भुञ्जन्ति, धनस्त्रीप्रमुखाः पदार्थास्तत्रैव तिष्ठन्ति, न च सार्थे समायान्ति । कोऽर्थः ? वराको जनो दुःखेन दव्यमुत्पाद्य यत्नेन रक्षति, दारानपि जीवितव्यमिव रक्षति, अलङ्कारैर्नवै रञ्जयति । तस्मिन् मृते सति तेनैव वित्तेन तैरेव दारैश्च, अन्ये हृष्टाः-शरीरे पुलकादिमन्तः, तुष्टा-आन्तरप्रीतिभाजोऽलङ्कृता विभूषिताः सन्तो रमन्ते, यत ईदशी भवस्थितिरस्ति । ततो हे राजंस्तपश्चरेत्तपः कुर्यादिति सम्बन्धः ॥१६॥ तेणावि जं कयं कम्म, सुहं वा जइ वा दुहं । कम्मुणा तेणसंजुत्तो, गच्छई उ परं भवं ॥१७॥ तेनापि मरणोन्मुखेन जीवेन यच्छुभं कर्म, अथवाऽशुभं कर्म कृतं भवेत्, सुखं दुःखं वोपार्जितं स्यात्, तेन शुभाशुभलक्षणेन कर्मणा संयुक्तः सन् स जीवः परभवं गच्छति, एतावता जीवस्य सार्थेऽन्यत्किमपि नायाति, स्वोपार्जितं शुभाशुभं कर्म सार्थे समागच्छति ॥१७॥ सोऊण तस्स सो धम्मं, अणगारस्स अंतिए। महया संवेगनिव्वेयं, समावन्नो नराहिवो ॥१८॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy