________________
अष्टादशं संयतीयाख्यमध्ययनम् १८]
[२७१ संजओ अहमस्सीति, भयवं वाहराहि मे।
कुद्धे तेएण अणगारे, डहिज्ज नरकोडिओ ॥१०॥ किंवक्ति? तदाह-राजा मनस्येवं जानातिस्म, अयं साधुआँ नीचं ज्ञात्वा किञ्चिद्विरूपं त्वरितंमा कुर्यात्, तस्मात् स्वकीयं नृपत्वं स्वनामसहितमवादीदिति भावः।हेभगवनहंसंयतो राजास्मि, इति हेतोर्हे भगवन् ! मे व्याहर मां जल्पय । हे स्वामिन् ! भवादृशः साधुः क्रुद्धः सन् तेजसा-तेजोलेश्यादिना नरकोटिं दहेत्, तस्मात् स्वामिना क्रोधो न विधेयः ॥१०॥
अभओ पत्थिवा तुब्भं, अभयदाया भवाहि य ।
अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ॥११॥ तदा मुनिराह-हे पार्थिव ! तुभ्यमभयं - भयं मा भवतु । त्वमप्यभयदाता भवाहि' इति भव । च इति पादपूरणे । जीवानामभयदानं देहि, जीवानां हिंसां मा कुर्वित्यर्थः । हे राजन्ननित्ये जीवलोके - संसारे 'किमि' ति किमर्थं हिंसायां प्रसञ्जसि ? प्रकर्षेण सज्जो भवसि ? जीवलोकस्यानित्यत्वे त्वमप्यनित्योऽसि ।किमर्थं प्राणिवधं करोषीत्यर्थः ॥११॥
जया सव्वं परिच्चज्ज, गंतव्वमवसस्स ते ।
अणिच्चे जीवलोगंमि, किं रज्जंमि पसज्जसि ॥ १२ ॥ हे राजन् ! यदा सर्वमन्तःपुरादिकं कोष्ठागारभाण्डागारादिकं परित्यज्य 'ते' तव परलोके गन्तव्यं वर्तते । कथंभूतस्य ते ? अवशस्य-परवशस्य, मरणसमये जीवो जानाति न म्रियते, परं किं करोति ? जीवः परवशः सन् स्वेच्छां विनैव म्रियते । यदुक्तं
"सव्वे जीवावि इच्छंति, जीविडं न मरिज्जउं ॥" [द.वै. ६-११] तेन हे नृप ! तव सर्वं परित्यज्य मर्तव्यमस्ति, तदाऽनित्ये जीवलोकेऽनित्ये संसारे किं राज्ये प्रसज्जसि-प्रसङ्गं करोषि-गृद्धो भवसि इति ॥१२॥
जीवियं चेव रूवं च, विज्जुसंपायचंचलं ।
जत्थ तं मुज्झसि रायं, पेच्चत्थं नावबुज्झसि ॥१३॥ हे राजन् ! जीवितमायुः च पुना रूपं शरीरस्य सौन्दर्य विद्युत्सम्पातचञ्चलं वर्तते, विद्युतः सम्पातश्चलनं तद्वच्चञ्चलं वर्तते । हे राजन् ! यत्र यस्मिन्नायुषि रूपे च त्वं मुझसे मोहं प्राप्नोषि, प्रेत्यार्थ -- परलोकार्थं च नावबुध्यसे-न जानासि ॥१३॥
दाराणि य सुया चेव, मित्ता य तह बंधवा ।
जीवंतमणुजीवंति, मयं नाणुव्वयंति य ॥ १४ ॥ १ सर्वे जीवा अपि इच्छन्ति, जिवितुं, न मर्तुम् ॥