________________
२७० ]
[ उत्तराध्ययनसूत्रे
अप्फोवमंडवंमि, झाय खवियासवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥ ५ ॥
'अप्फोवमंडवंमि' इति वृक्षाद्याकीर्णो ऽफोवः स चासौ मण्डपश्चाफोवमण्डपस्तस्मिन्नफोवमण्डपे, नागवल्लीद्राक्षादिभिर्वेष्टिते स्थाने इत्यर्थः । तस्मिन् वृक्षनिकुञ्जे लतावेष्टिते सोनगारो ऽप्फोवमंडपे स्थितो ध्यानं ध्यायति, धर्मध्यानं चिन्तयति । कीदृशः सोऽनगार ? क्षपिताश्रवः, क्षपिता- निरुद्धा आश्रवा येन स क्षपिताश्रवो निरुद्धपापागमनद्वारः । अत्र पूर्वगाथायामपि ध्यानं ध्यायतीत्युक्तम्, पुनरपि यदुक्तं तदत्यन्तादरख्यापनार्थम् स नराधिपः संयतो भूपस्तस्य धर्मध्यानपरायणस्य साधोः पार्श्वे आगतं मृगं हन्ति स्म ॥ ५ ॥ अह आसगओ राया, खिप्पमागम्म सो तर्हि ।
ए मिए उपासित्ता, अणगारं तत्थ पासई ॥ ६॥
-
अथानन्तरमश्वगतोऽश्वारूढः स संयतो राजा तत्र - तस्मिन् लतागृहे क्षिप्रं शीघ्रमागत्य हतं मृगं दृष्ट्वा तत्रानगारं साधुं पश्यति ॥ ६ ॥
अह राया तत्थ संभंतो, अणगारो मणाहओ ।
-
मए उ मंदपुण्णेणं, रसगिद्धेण घित्तुणा ॥ ७ ॥
अथानन्तरं तत्र - तस्मिन् स्थाने स संयतो राजा सम्भ्रान्तो मुनिदर्शनाद्भीत इत्यर्थः, मनस्येवं चिन्तयति स्म । मया मन्दपुण्येन-न्यूनभाग्येनाऽनगारः साधुरनाहतोऽल्पेनाहतोऽभूत्, स्तोकेन टलित इत्यर्थः । मया पापेनायं साधुर्मारित एवाभूदित्यर्थः । कीदृशेन मया ? रसगृद्धेन मांसास्वादलोलुपेन, पुनः कीदृशेन मया ? 'घित्तुणा' घातकेन - जीवहननशीलेन ॥ ७ ॥ आसं विसज्जइत्ता णं, अणगारस्स सो निवो ।
विणणं वंद पाए, भगवं इत्थ मे खमे ॥ ८ ॥
स नृपोऽनगारस्य विनयेन पादौ वन्दते । किं कृत्वा ? अश्वं विसृज्य, णमिति वाक्यालङ्कारे, घोटकं त्यक्त्वा । पुनः स नृप इति वक्ति-हे भगवन् ! ' इत्थ' इत्यत्र मृगवधे मेऽपराधं क्षमस्व, अपराधमिति पदमध्याहार्यम् ॥ ८ ॥
अह मोणेण सो भयवं, अणगारे झाणमस्सिए ।
रायाणं न पडिमंतेइ, तओ राया भयदुओ ॥ ९॥
अथ राज्ञा मुनेश्चरणवन्दना कृता, ततोऽनन्तरं स भगवान् ज्ञानातिशययुक्तोऽनगारः साधु मौन ध्यानमाश्रितः सन्, पिण्डस्थ- पदस्थ - रूपस्थ-रूपातीतादिकं ध्यायन्, अथवा धर्मध्यानमाश्रितः सन् राजानं संयतभूपं प्रति न निमन्त्रयति न जल्पयति । ततस्तस्मात्कारणान्मुनेरभाषणाद्राजा भयदुतो - भयभ्रान्तोऽभूत् इति वक्ति च ॥ ९ ॥