________________
॥अथ अष्टादशं संयतीयाख्यमध्ययनं प्रारभ्यते ॥
सप्तदशेऽध्ययने पापस्थानकनिवारणमुक्तम्, तत्पापस्थाननिवारणं संयमवतो भवति । स च संयमो हि भोगजयात् ऋद्धेस्त्यागाच्च भवति । स च भोगत्यागः संयतराजर्षिदृष्टान्तेनाष्टादशाध्ययनेन दृढयति । इति सप्तदशाष्टादशयोः सम्बन्धः ।
कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नाम, मिगव्वं उवणिग्गए ॥१॥ हयाणीए गयाणीए, रहाणीए तहेव य ।
पायत्ताणीए महया, सव्वओ परिवारिए ॥२॥ काम्पिल्ये नगरे राजाभूत् । कीदृशः स राजा? नाम्ना संयत इति नाम प्रसिद्धः। पुनः कीदृशः ? उदीर्णबलवाहनः, उदीर्णमुदयं प्राप्तं बलं येषां तान्युदीर्णबलानि, उदीर्णबलानि वाहनानि यस्य स उदीर्णबलवाहनः । अथवा बलं चतुरङ्गं गजाश्वरथसुभटरूपम्, वाहनम्शिबिकावेसरप्रमुखम्, बलं च वाहनं च बलवाहने, उदीर्णे उदयं प्राप्ते बलवाहने यस्य स उदीर्णबलवाहनः ।स संयतो राजा मृगव्यामुपनिर्गतो-नगरादाक्षेटके गतः, मृगव्या आक्षेटक उच्यते ॥१॥
पुनः कीदृशः संयतो नृपः ? हयानामनीकं तेन हयानीकेन घोटककटकेन, तथा पुनर्गजानीकेन-कुञ्जरकटकेन, तथैव स्थानीकेन, पुनर्महता प्रचुरेण पादात्यनीकेन सर्वतः परिवारितः सर्वपरिवारसहितः ॥२॥ युग्मम्॥
मिए छुभित्ता हयगओ, कंपिल्लुज्जाणकेसरे।
भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥ स संयतो नृपो हये गतोऽश्वारूढस्तत्र काम्पिल्योद्याने केसरनाम्नि पूर्व मृगान् क्षिप्त्वाप्रेरयित्वा अश्वेन त्रासयित्वा तान् मृगान् वध्यति । कीदृशः संयतः ? रसमूर्छितः, रसस्तेषामास्वादानुभवस्तत्र लोलुपः, कीदृशान् मृगान् ? भीतान्, पुनः कीदृशान् ? ग्लानि प्राप्तान् ॥३॥
अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियायई ॥ ४ ॥
अथ मृगाणां त्रासमारणोत्पादनानन्तरम्, केसरे उद्यानेऽनगारो धर्मध्यानमाज्ञाविचयादिकं ध्यायति, धर्मध्यानं चिन्तयति । कथंभूतोऽनगारः ? तपोधनस्तप एव धनं यस्य स तपोधनः, पुनः कीदृशः ? स्वाध्यायध्यानसंयुक्तः ॥४॥