SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६८] [उत्तराध्ययनसूत्रे कथनेन व्यवहरति द्रव्यमर्जयति, अथवा गृहस्थादिनिमित्तं व्यवहरति, क्रयविक्रयादिकं कुरुते, स पापश्रमण इत्युच्यते ॥ १८ ॥ सन्नाइपिंडं जेमेई, निच्छइ सामुदाणियं । गिहिनिसिज्जं च वाहेइ, पावसमणि त्ति वुच्चई ॥१९॥ यःपुनः स्वज्ञातिपिण्डंस्वकीयबन्धुभित्तमाहारंभुङ्क्ते।रागपिण्डंभुङ्क्ते इत्यर्थः । पुनर्यः सामुदायिकम्, समुदाये भवं सामुदायिकम्, गृहाद्गृहाद्गृहीतं भैक्ष्यं नेच्छति न वाञ्छति।पुनर्यो गृहिनिषद्याम्, गृहिणो निषद्या गृहिनिषद्या,गृहस्थस्य गृहेगत्वा पल्यङ्कादिकं वाहयत्यारोहयति, मञ्चमञ्चिकापीठिकादिषु तिष्ठतीत्यर्थः।सपापश्रमण उच्यत इति ॥१९॥ एयारिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिट्ठिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थ लोए ॥२०॥ एतादृशो रूपधरो मुनिवेषधारी,सइहास्मिन् लोकेन, तथा परंमि-परस्मिन् लोकेऽपि न, स गृहस्थोऽपि न भवति, साधुरपि न भवति, उभयतोऽपि भ्रष्ट इत्यर्थः । स कीदृशः? पञ्चकुशीलसंवृतः, पञ्च च ते कुशीलाश्च पञ्चकुशीलास्तद्वदसंवृतोऽजितेन्द्रियः, अत्र प्राकृतत्वादकारलोपः । अथवा पञ्चकुशीलैः संवृतः सहितः, यादृशा जिनमते पञ्च कुशीलास्तन्मध्यवर्तीत्यर्थः । यदुक्तम् - "ओसन्नो पासत्थो, होइ कुसीलो तहेव संसत्तो । अहच्छंदोवि य एए, अवंदणिज्जा जिणमयंमि ॥ १ ॥" पापश्रमणोऽप्यवन्दनीय एव । पुनः कीदृशः? मुनिप्रवराणां प्रधानमुनीनां मध्येऽधः स्थितः स पापश्रमण एतस्मिन् लोके विषमिव गर्हितो, विषमिव निन्द्यो, विषवत् त्याज्य इत्यर्थः ॥२०॥ जे वज्जए एए सया उदोसे, से सुव्वए होइ मुणीण मज्झे। अयंसि लोए अमयंव पूइए, आराहए लोगमिणं तहा परे ॥२१॥त्तिबेमि ॥ ___य 'एए' इत्येतान् दोषान् सर्वदा वर्जयेत्, स सुव्रतः, सुष्ठ व्रतानि यस्य स सुव्रतो महोज्ज्वलव्रतधारी, सर्वमुनीनां मध्ये एतस्मिन् लोकेऽमृतमिव पूजितो भवेत्, सर्वमुनीनामादरणीयः स्यात्, पुनः सुव्रतः साधुरस्मिन् लोके, तथा परत्र परभवेऽप्याराधकः स्यादित्यह ब्रवीमि ॥२१॥ इति पापश्रमणीयमध्ययनं सप्तदशम् ॥१७॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां पापश्रमणीयाख्यं सप्तदशमध्ययनं सम्पूर्णम् ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy