________________
सप्तदशं पापश्रमणीयमध्ययनम् १७]
[२६७ कौकुच्यिको भण्डचेष्टाकारी । पुनर्यो यत्र तत्र निषीदति, सचित्तपृथिव्यामप्रासुकभूमौ तिष्ठति । पुनरासनेऽनायुक्त आसनेऽसावधानः स पापश्रमण उच्यते ॥ १३ ॥
ससरक्खपाओ सुयई, सिज्झं न पडिलेहई ।
संथारए अणाउत्ते, पावसमणि त्ति वुच्चइ ॥१४॥ पुनः स पापश्रमण उच्यते । सः कः ? यः सरजस्कपादः स्वपिति, संस्तारके रजोऽवगुण्ठितचरणोऽप्रमृज्यैव शेते, पुनर्यः शय्यां न प्रतिलेखयति, शय्यां वसतिमुपाश्रयं न सम्यक् प्रतिलेखयति, न प्रमार्जयति । पुनर्यः संस्तारकेऽनायुक्तः, यदा संस्तारके शेते तदा पौरुषीमभणित्वाऽविधिनाऽसावधानत्वेन शेते, स पापश्रमण उच्यते ॥ १४ ॥
दुद्धदहीविगईओ, आहारेइ अभिक्खणं ।
अरए अ तवोकम्मे, पावसमणि त्ति वुच्चइ ॥१५॥ यो दुग्धदधिनी विकृती अभीक्ष्णं-वारंवारमाहारयति, पुनर्यस्तपःकर्मण्यरतस्तपःकर्मण्यरतिं धत्ते, स पापश्रमण इत्युच्यते ॥१५॥
'अत्यंतंमि य सूरंमि, आहारेइ अभिक्खंण ।
चोईओ पडिचोएई, पावसमणि त्ति वुच्चइ ॥१६॥ पुनर्यः सूर्येऽस्तमिते सति अभीक्ष्णं प्रतिदिनमाहारयति, आहारं करोति, पुनर्यश्चोदितः प्रेरितः सन् प्रतिचोदयति, केनचिद् गीतार्थेन शिक्षितः सन् तं पुनः प्रतिशिक्षयति स पापश्रमण उच्यते ॥ १६ ॥
आयरियपरिच्चाई, परपासंडसेवई ।
गाणंगणिए दुब्भूए, पावसमणि त्ति वुच्चई ॥१७॥ पुनर्य आचार्यपरित्यागी, आचार्यान् परित्यजतीत्याचार्यपरित्यागी।आचार्या हि सरसाहारमपरेभ्यो ग्लानादिभ्यो ददति, अस्मभ्यं च वदति तपः कुर्वन्त्वित्यादि गुरूणां दूषणं दत्वा पृथग्भवति । पुनर्यः परपाखण्डान् सेवते इति परपाखण्डसेवकः, परेषु पाखण्डेषु मृदुशय्यादिसुखं दृष्ट्वा तान् सेवते । पुनर्यो गाणंगणिको भवति, गणाङ्गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणंगणिकः, अत एव दुर्भूतो दुराचारतया निन्दनीय इत्यर्थः, स पापश्रमण उच्यते ॥१७॥----
सयं गेहं परिच्चज्ज, परगेहंसि वावरे ।
निमित्तेण य ववहरई, पावसमणि त्ति वुच्चइ ॥१८॥ यः पुनः स्वयं - स्वकीयं गृहं - दीक्षां गृहीत्वा पूर्वमेकं त्यक्त्वा परस्यान्यस्य गृहस्थस्य गृहे परगृहे व्याप्रियते, आहारार्थी सन् तत्कार्याणि कुरुते । पुनर्यो निमित्तेन शुभाशुभ