SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६६ ] [ उत्तराध्ययनसूत्रे पडिलेहेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहणा अणाउत्ते, पावसमणि त्ति वुच्चई ॥ ९ ॥ पुनः पापश्रमणः स उच्यते । स इति कः ? यो वस्त्रपात्रादिकं निजपकरणं प्रमत्तः सन् प्रतिलेखयति, मनोविना प्रतिलेखयतीत्यर्थः । पुनर्य: पादकम्बलं पादपुञ्छनमथवा पात्र - कम्बलमपोज्झति, यत्र तत्राऽप्रमार्जितेऽप्रतिलेखिते स्थले निक्षिपति । अत्र पात्रकम्बलग्रहणेन सर्वोपधिग्रहणं कर्तव्यम् । पुनर्यः प्रतिलेखनायां स्वकीयसर्वोपधिप्रतिलेखनायामनायुक्त आलस्यभाक् प्रत्युपेक्षानुपयुक्त इत्यर्थः । एतादृशः पापश्रमणो भवेत् ॥ ९ ॥ पडिले पत्ते से किंचि हु निसामिया । गुरुं परिभावए निच्चं पावसमणि त्ति वुच्चई ॥ १० ॥ ? स पापश्रमण इत्युच्यते । सः कः ? यः साधुर्यत्किञ्चिद्वस्तूपध्यादिकं प्रतिलेखयति, तदा किञ्चिन्निशम्य प्रतिलेखयति । कोऽर्थः ? यदा प्रतिलेखनावसरे कश्चिद्वार्तां करोति तदा तद्वार्ता श्रवणव्यग्रचित्तः सन् प्रतिलेखयतीत्यर्थः । पुनर्यो गुरून्नित्यं परिभवति सन्तापयति स पापश्रमणो भवति ॥ १० ॥ बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते, पावसमणि त्ति वुच्चई ॥ ११ ॥ पुनर्यो बहुमायी प्रचुरमायायुक्तो भवति, पुनर्यः प्रमुखरः प्रकर्षेण वाचालो भवति, पुनर्यः स्तब्धोऽहङ्कारी पुनर्यो लुब्धो लोभी, पुनर्योऽनिग्रहः, न विद्यते निग्रहो यस्य सोनिग्रहो - वशीकृतेन्द्रियः पुनर्यो ऽसंविभागी गुरुग्लानादीनामुचिताहारादिना न प्रतिसंविभजति । पुनर्यो 'अचियत्त' इति गुर्वादिष्वप्रीतिकर्ता स पापभ्रमण इत्युच्यते ॥ ११ ॥ विवायं च उदीरेइ, अहम्मे अत्तपन्ना । वुग्गहे कलहे रत्ते, पावसमणि त्ति वुच्चइ ॥ १२ ॥ यः पुनरेतादृशो भवति स पापश्रमण इत्युच्यते । सः कः ? यो विवादं कलहमुदीरयति, उपशान्तमपि पुनरुज्ज्वालयति । पुनर्योऽधर्मोऽसदाचाररतः, पुनर्य आप्तप्रज्ञहा, आप्तां सद्बोधरूपतया हितां प्रज्ञां हन्तीत्याप्तप्रज्ञहा तत्त्वबुद्धिहन्ता, पुनर्यो व्युद्ग्रहो भवति, विशेषेणोद्ग्रहो दण्डादिप्रहारजनितयुद्धं व्युद्ग्रहस्तस्मिन् रतः, तथा पुनः कलहे - वाग्युद्धे रतः ॥ १२ ॥ अथिरासणे कुक्कुईए, जत्थ तत्थ निसीयई । आसणंमि अणाउत्ते, पावसमणि त्ति वुच्चइ ॥ १३ ॥ पुनर्योऽस्थिरासनो भवति, अस्थिरमासनं यस्य सोऽस्थिरासनः आसने स्थिरं न तिष्ठतीत्यर्थः । पुनर्यः कौकुच्यिकः, कौकुच्यं भण्डचेष्टादिहास्यमुखविकारादिकं तत्करोतीति "
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy