________________
सप्तदशं पापश्रमणीयमध्ययनम् १७]
[ २६५
जानामि, तादृशमेते आचार्या उपाध्याया न जानन्तीत्युक्त्वा निन्दति । तान् कान् ? यैराचार्यैरुपाध्यायैश्च श्रुतं - शास्त्रम्, विनयं च ग्राहितः, शिक्षितश्च तान् प्रति निन्दति । इति न जानाति यदेतैरेवाहं शिक्षितः । एतादृशः कृतघ्नः पापश्रमणः श्रमणाभासः श्रमणलक्षणैर्हीनः श्रमणत्वं मन्यमानः पापश्रमण उच्यते । कीदृशः सः ? बालोऽज्ञानी निर्विवेकीत्यर्थः ॥ ४॥
आयरियउवज्झायाणं, सम्मं नो पडितप्पड़ । अप्पडिपूयए थद्धे, पावसमणित्ति वुच्चइ ॥ ५ ॥
ज्ञानविषयं पापश्रमणत्वमुक्त्वा दर्शनविषयमाह-य आचार्याणां पुनरुपाध्यायानां सम्यक्प्रकारेण वैपरीत्यराहित्येन न परितृप्यति-प्रीतिं न विदधाति । पुनर्यो ऽर्हदादीनां यथायोग्यपूजायाः पराङ्मुखो भवति, अप्रतिपूजको भवति । अथवोपकारकर्तुरप्युपकारं विस्मार्य तस्य प्रत्युपकारं किमपि न करोति, सोऽप्रतिपूजक उच्यते । पुनः स्तब्धोऽहङ्कारी, मनस्येवं जानाति यदहं महापुरुषोऽस्मि, एतादृशो मुनिर्यः स्यात् स पापश्रमण उच्यते ॥ ५ ॥ संमद्दमाणे पाणाणि, बीयाणि हरियाणि च ।
असंजए संजयमन्नमाणे, पावसमणित्ति वुच्चई ॥ ६ ॥
यः प्राणान् द्वित्रिचतुरिन्द्रियान् संमर्द्दमानोऽतिशयेन पीडयन् च पुनर्बीजानि शालिगोधूमादिसचित्तधान्यानि संमर्द्दयति, च पुनर्हरितानि दूर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, स पापश्रमण उच्यते ॥ ६ ॥
संथारं फलगं पीढं, निसेज्जं पायकंबलं । अप्पमज्जियमारुहइ, पावसमणित्ति वुच्चइ ॥ ७ ॥
पुनर्यः संस्तारं कम्बलादिकम्, फलकं पट्टिकादिकम्, पीठं सिंहासनादिकम्, निषीद्यते उपविश्यते इति निषद्या तां निषद्यां स्वाध्यायातापनादिक्रियायोग्यां भूमिम्, पादकम्बलं पादपुञ्छनमित्याद्युपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वाssरोहते स पापश्रमण उच्यते ॥ ७ ॥
३४
दवदवस्स चरई, पत्ते य अभिक्खणं ।
उल्लंघणे य चंडेय, पावसमणित्ति वुच्चइ ॥ ८ ॥
पुनर्य आहाराद्यर्थं यदा व्रजति, तदा दबदब इति घातैः पृथिवीं कुट्टयन् शीघ्रं शीघ्रं व्रजति, ईर्यासमिति न साधयति । पुनरभीक्ष्णं वारंवारं प्रमत्तः प्रमादी सर्वाभिः समितिभिर्हीनः स्यात्, अप्रमत्तो न भवति । पुनर्य उल्लङ्घनः, उल्लङ्घयत्यज्ञानीनामथवा बालानाम् हास्याद्यविनयकर्तॄणांभापयन् स्वकीयमाचारमतिक्रामयतीत्युल्लङ्घनः । पुनर्यश्चण्डः क्रोधाध्मातचित्तः स्यात्, स पापश्रमण उच्यते ॥ ८ ॥