________________
॥अथ सप्तदशं पापश्रमणीयमध्ययनं प्रारभ्यते ॥
षोडशेऽध्ययने ब्रह्मचर्यगुप्तयः प्रकाशिताः, ता गुप्तयस्तु पापस्थानवर्जनादेव भवन्ति । तस्मात्पापस्थानसेवनात्यापश्रमणो भवति । ततः पापश्रमणज्ञानार्थं सप्तदशमध्ययनं प्रकाश्यते । इति षोडश-सप्तदशयोः सम्बन्धः ॥ --..
जे केइ उ पव्वइए नियंठे, धम्मं सुणित्ता विणओववन्ने । सुदुलहं लहिउं बोहिलाभं, विहरेज्ज पच्छा य जहासुहं तु ॥१॥
यः कश्चित्प्रव्रजितो-गृहीतदीक्षो निर्ग्रन्थः साधुः पूर्वं धर्म-श्रुतचारित्ररूपधर्मं श्रुत्वा, विनयं-ज्ञानदर्शनसेवनरूपमुपपन्नः-प्राप्तः सन्, पुनर्यः साधुः सुतरामतिशयेन दुर्लभं सुदुर्लभं बोधिलाभं-श्रीतीर्थङ्करस्य धर्मं सम्यक्त्वं लब्ध्वा, पश्चाद्यथासुखं-यथेच्छं निद्राविकथाप्रमादवत्त्वेन विचरेत्, सिंहत्वेन धर्ममङ्गीकृत्य पश्चाच्छृगालवृत्त्यैव विचरेत् स च प्रमादी ॥१॥
गुरुणा हे शिष्य ! त्वमधीष्वेत्युक्तः सन् किं वक्ति ? तदाहसिज्जा दढा पाउरणं मि अत्थि, उप्पज्जई भोत्तुं तहेव पाउं ।। जाणामि जं वट्टइ आउसु त्ति, किं नाम काहामि सुएण भंते ॥२॥
हे गुरो ! शय्योपाश्रयो वसतिदृढा, वर्षाशीतातपपीडानिवृत्तिकरास्ति, प्रावरणं-वस्त्रं शीताद्युपद्रवहरं शरीराच्छादकं 'मे' ममास्ति वर्तते । हे गुरो ! पुनर्भोक्तुं भोजनम्, तथैव पातुं पानं योग्यमुपपद्यते-मिलति । हे आयुष्मन् ! हे भगवन् ! यद्वर्तमानं जीवादिवस्तु वर्तते तदप्यहं जानामि, इति हेतोर्हे भगवन् ! श्रुतेन-सिद्धान्ताध्ययनेन किं करिष्यामि ? अत्र हे भगवन्नित्यामन्त्रणं क्षेपे वर्तते । कोऽर्थः ? ये भगवन्तोऽधीयन्ते, तेषामपि नातीन्द्रियज्ञानम्, तत्कि गलतालुशोषेणेत्यध्यवसितोऽयं भवति । स पापश्रमण उच्यते, इतीहापि सम्बध्यते सिंहावलोकनन्यायेन ॥२॥
जे केई पव्वईए, निद्दासीले पगामसो । भोच्चा पेच्चा सुहं सुवई, पावसमणित्ति वुच्चइ ॥ ३ ॥
स पापश्रमण इत्युच्यते । पापश्चासौ श्रमणश्च पापश्रमणः पापिष्ठसाधुरित्यर्थः । स इति कः ? यः कश्चित्प्रव्रजितो गृहीतदीक्षः सन् पश्चात्प्रकामशोऽत्यन्तं भुक्त्वा, दधिकरम्बादिकं भुक्त्वा, पीत्वा - दुग्धतक्रादिकमाचम्य निदाशीलो भूत्वा सुखं प्रतिक्रमणादिक्रियानुष्ठानमकृत्वैव स्वपिति, स सम्यक् साधुर्न भवेदित्यर्थः ॥ ३ ॥
आयरियउवज्झाएहि, सुयं विणयं च गाहिए ।
ते चेव खिसई बाले, पावसमणित्ति वुच्चइ ॥४॥ स पापश्रमण इत्युच्यते । स इति कः ? यस्तानेवाचार्यान् गणवृद्धान्, उपाध्यायान् पाठकान् ‘खिसई' इति निन्दते । किं जानन्त्येतेऽज्ञाः ? अहं यादृशमाचारं सूत्राणामर्थं