SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६] [२६३ पुनः कथम्भूतो ? धर्मारामरतः, धर्मे आ-समन्ताद्रमन्ते इति धर्मारामाः साधवस्तेषु रतः, साधुभिः सह-युक्तः, न त्वेकाकी तिष्ठति । पुनः कीदृशः ? दान्त - इन्द्रियाणां जेता कषायजेता च ॥१५॥ अथ ब्रह्मचर्यधरणात्फलमाह देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नर्मसंति, दक्करं जे करिति तं ॥ १६ ॥ देवा-विमानवासिनो ज्योतिष्काच, दानवा-भवनपतयो, गन्धर्वा-देवगायनाः, यक्षा-वृक्षवासिनः सुराः, राक्षसा-मांसास्वादतत्पराः, किन्नरा-व्यन्तरजातयः, एते सर्वेऽपि तं ब्रह्मचारिणं नमस्कुर्वन्ति । तं कं ? यो ब्रह्मचारी पुरुषः स्त्रीजनो वा दुष्कर-कर्तुमशक्यं धर्मं करोतीति शीलधर्मं पालयति ॥ १६ ॥ एस धम्मे धुवे णिच्चे, सासए जिणदेसिए । सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरे ॥१७॥त्तिबेमि ॥ एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीथिभिरनिषेध्योऽस्ति, तस्मात्प्रमाणप्रतिष्ठितः, पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वतस्त्रिकाले फलदायकत्वात् । पुनर्जिनैस्तीर्थकरैर्देशितः- प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितम् । अनेन शीलधर्मेण बहवो जीवाः सिद्धा-अतीतकाले सिद्धि प्राप्ताः । च पुनरनेन धर्मेण कृत्वेदानी सिद्ध्यन्ति । तथा तेन प्रकारेण शीलधर्मेण सेत्स्यन्ति, अपरेऽनागताद्धायां सिद्धि प्राप्स्यन्ति । अत्राध्ययने मुहुर्मुहुर्ब्रह्मचर्यसमाधिस्थानानि प्रकाशितानि, मुहुर्मुहुर्दूषणान्युक्तानि, तदत्र शीलेऽत्यन्तपालनादरप्रकाशनाय, न तु पुनरुक्तिदोषो ज्ञेयः। इत्यहं ब्रवीमीति सुधर्मास्वामि जम्बूस्वामिनं प्राह ॥१७॥ इति ब्रह्मचर्यसमाधिस्थानारव्यमध्ययनं षोडश संम्पूर्णम् ॥ १७ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां ब्रह्मचर्यसमाधिस्थानं षोडशं सम्पूर्णम् ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy