SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६२] [उत्तराध्ययनसूत्रे अथ यत्पूर्वमुक्तं शङ्काकाङ्क्षादूषणं स्यात्, तत्सर्वं पृथक् दृष्टान्तेन दृढयति - आलओ थीजणाइन्नो, थीकहा य मणोरमा। संथवो चेव नारीणं, तासि इंदियदरिसणं ॥ ११ ॥ कूइयं रुइयं गीयं, हसियं 'भुत्तासिणाणि य । पणीयं भत्तपाणं च, अइमायं पाणभोयणं ॥१२॥ गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥ तिसृभिर्गाथाभिः पूर्वाण्येव ब्रह्मचर्यसमाधिभङ्गकारणान्याह-आत्मगवेषकस्य नरस्य स्त्रीजनस्य चैतत्सर्वं ब्रह्मचर्यघातकरं त्याज्यमित्यर्थः । आत्मानं ब्रह्मचर्यजीवितं गवेषयतीत्यात्मगवेषकस्तस्य-वल्लभब्रह्मचर्यस्य । किमिव ? तालपुटं विषमिव, यथा शब्द इवार्थे, यथा तालपुटं विषं तालुकस्पर्शनमात्रादेव त्वरितं जीवितं हन्ति । तथैतदपि त्वरितं ब्रह्मचर्यजीवितमपहरतीत्यर्थः ।तत् किं किमित्याह-स्त्रीजनाकीर्ण आलयो-गृहमुपाश्रयः १, पुनर्मनोरमा-मनोहरा स्त्रीकथा २, च पुनर्नारीणां संस्तवः, स्त्रीभिः सहैकासने उपविशनं परिचयकरणम् ३, पुनस्तासां स्त्रीणां रागेणेन्द्रियाणां-नयनवदनस्तनादीनां दर्शनम् ४, पुनः स्त्रीणां कूजितम्, तथा रुदितम्, पुनर्गीतम्, तथा हसितम्५, पुनः स्त्रीभिः सह भुक्तासनानि६, पुनस्तथा प्रणीतरसभक्तपानसेवनं ७,पुनरतिमात्रपानभोजनम्८,पुनर्गात्रभूषणार्थंशोभाकरणम् ९, पुनर्दुर्जयाः कामभोगाः,अधीरपुरुषैस्त्यक्तुमशक्याः १०, एतत्सर्वं ब्रह्मचर्यधारिणा परिहरणीयम् ॥११ ॥१२॥१३॥ दुज्जये कामभोगे य, निच्चसो परिवज्जए। संकाठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ १४ ॥ प्रणिधानवानेकाग्रचित्तः सर्वाणि दशापिशङ्कास्थानानि यानि पूर्वोक्तानि तानि वर्जयेत् । पुनर्जयान् भोगान् परिवर्जयेत् । पुनः कामभोगग्रहणमत्यन्तनिवारणोपदेशार्थं ॥१४॥ धम्मारामे चरे भिक्खू, धिइमं धम्मसारही। धम्मारामरए दंते, बंभचेरसमाहिए ॥ १५ ॥ ब्रह्मचर्यसमाधिमान् भिक्षुः साधुर्धर्माराम चरेत् । धर्म आराम इव दुःखसन्तापतप्तानां सौख्यहेतुत्वात्, धर्मारामस्तस्मिन् धर्मारामे तिष्ठेत्, शीलधर्मः स एवारामस्तत्र विचरेदित्यर्थः । कीदृशो भिक्षुः ? धृतिमान् धैर्ययुक्तः, पुनः कीदृशः ? धर्मसारथिर्धर्ममार्गप्रवर्तयिता । १ सहासनभुक्तानीति वक्तव्ये सहभुक्तासनानीति प्राकृतत्वात् । २ एकासने उपविशनपूर्वं भोजनानि कत्यानि कार्यमित्यर्थः।
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy