________________
षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६ ]
हासं की रई दप्पं, सहसाऽवित्तासियाणि य । बंभचेररओ थीणं, नाणुचिते कयाइवि ॥ ६ ॥
ब्रह्मचर्यरतो ब्रह्मचारी स्त्रीणां हास्यम्, पुनः क्रीडाम्, तथा रतिम् मैथुनप्रीतिम्, दर्पं स्त्रीणां मानमर्दनादुत्पन्नं गर्वम्, पुनः सहसा अपत्रासितानि सहसात्कारेणागत्य पश्चात्पराङ्मुखस्थितानां स्त्रीणां नेत्रे हस्ताभ्यां निरुन्ध्य भयोत्पादनहास्योत्पादनानि सहसावित्रासितान्युच्यन्ते । एतानि पूर्वानुभूतानि कदापि नानुचिन्तयेन्न स्मरेत् ॥ ६ ॥
पणियं भत्तपाणं तु, खिप्पं मयविवड्डणं ।
बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ७ ॥
[ २६१
ब्रह्मचर्यरतो भिक्षुः प्रणीतं-क्षरद्धृतादिरसम्, भक्तमाहारम्, तथा पानं- द्राक्षाखर्जूरशर्करादिमिश्रितं पानीयं नित्यशः परिवर्जयेत्, सर्वदा परित्यजेत् सदा सेवनाद् गार्ध्यं स्यात् । तथा ब्रह्मरतो भिक्षुर्यदाहारं पानीयं च क्षिप्रं शीघ्रं मदविवर्धनं - कामोद्दीपकं भवति, तदपि नित्यं परिवर्जयेत् ॥ ७ ॥
धम्मलद्धं मियं काले, जत्तत्थं पणिहाणवं ।
नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥ ८ ॥
ब्रह्मचर्यरतः साधुर्ब्रह्मचारी सदाऽतिमात्रं मात्रातिरिक्तमतिमात्रं मात्राधिकमाहारं नैव भुञ्जीत । परं कीदृशमाहारं ? धर्मेण लब्धम्, न तु विप्रतार्य गृहीतम्, तदपि आहारं यात्रार्थं - संयमनिर्वाहार्थं न तु बल-वीर्यादिवृद्धयर्थं गृहीतम्, तदाहारं कदाचित्सरसमपि लब्धं तदा सदैव न भुञ्जीत । कीदृशो ब्रह्मचारी साधुः ? प्रणिधानवान् प्रणिधानं - चित्तस्य स्थैर्यम्, तद्विद्यते यस्य स प्रणिधानवान्, चित्तस्वास्थ्ययुक्त इत्यर्थः ॥ ८ ॥
-
विभूसं परिवज्जिज्जा, सरीरपरिमंडणं ।
बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥
ब्रह्मचर्यरतो भिक्षुः शरीरस्य परि - समन्तान्मण्डनं - नखकेशादीनां संस्कारणं श्रृङ्गारार्थं परिवर्जयेत् । पुनर्ब्रह्मचर्यधारी विभूषां सम्यग् वस्त्रादिविहितशरीरशोभां परिवर्जयेत् ॥ ९ ॥ संदे रूवे य गंधे य, रसे फासे तहेव य ।
पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ १०॥
ब्रह्मचारी नित्यशः सर्वदा शब्दं कर्णसुखदम्, रूपं नेत्रप्रीतिकरम्, पुनर्गन्धं-नासासुखदम्, तथा रसं - मधुरादिकम्, तथैव स्पर्शं त्वक्प्रीतिकरम्, एवं पञ्चविधकामगुणान् परिवर्जयेत् ॥ १० ॥