SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २६० ] [ उत्तराध्ययनसूत्रे "अट्ठमीपक्खिए मोत्तुं, वायणाकालमेव य । सेसकालंमिइंतीओ, नेया उ अकालचारीओ " ॥ १ ॥ तस्माद्य आलयः स्त्र्यादिभिरसेवितस्तमालयं ब्रह्मचारी साधुश्च निषेवत इत्यर्थः । पुनsarai गृहस्थानां गृहाद् दूरवर्ती । किमर्थं ? ब्रह्मचर्यस्य रक्षार्थम्, यो हि स्वब्रह्मचर्यं रक्षितुमिच्छति स एतादृशमुपाश्रयं निषेवते । अत्र लिङ्गव्यत्ययः प्राकृतत्वात् ॥ १ ॥ मणपह्लायजणणि, कामरागविवड्ढणि । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥ २ ॥ अथ द्वितीयं ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत्, स्त्रीणां कथा स्त्रीकथा, तां त्यजेत् । कीदृशीं कथां ? मनःप्रह्लादजननीमन्तः करणस्य हर्षोत्पादिकाम् । पुनः कीदृशीं ? कामरागविवर्धनीं - विषयरागस्यातिशयेन वृद्धिकर्त्रीम् ॥ २ ॥ समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ३ ॥ ब्रह्मचर्यरतो भिक्षुर्नित्यशो - निरन्तरं सर्वदा स्त्रीभिः समं संस्तवमर्थादेकासने स्थित्वा परिचयम्, च पुनरभीक्ष्णं - वारंवारं सङ्कथां स्त्रीजातिभिः सह स्थित्वा बह्रीं वार्तां परिवर्जयेत्, सर्वथा त्यजेत् ॥ ३ ॥ अंगपच्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, चक्खूगिज्झं विवज्जए ॥ ४ ॥ ब्रह्मचर्यरतो साधुः स्त्रीणामङ्गप्रत्यङ्गसंस्थानं चक्षुर्ग्राह्यं विवर्जयेत् । अङ्गं मुखम्, प्रत्यङ्ग-स्तन-जघन-नाभि-कक्षादिकम्, संस्थानकं - कटीविषये हस्तौ दत्वोर्ध्वस्थायित्वम्, पुनः स्त्रीणां चारूल्लपितप्रेक्षितं चक्षुर्ग्राह्यं विशेषेण वर्जयेत् । चारु-मनोहरं यदुल्लपितं - मन्मनादिजल्पितम्, प्रकृष्टमीक्षितं वक्त्रावलोकनमेतत्सर्वं परित्यजेत् । कोऽर्थः ? ब्रह्मचारी हि स्त्रीणामङ्गप्रत्यङ्गसंस्थानं, चारुभणितं, कटाक्षैरवलोकनमेतत्सर्वं दृष्टिविषयमागतमपि, ततः स्वकीयं चक्षुरिन्द्रियं बलान्निवारयेदित्यर्थः ॥ ४ ॥ कूइयं रुइयं गीयं, हसियं थणियकंदियं । बंभचेररओ थीणं, सोयगिज्झं विवज्जए ॥ ५ ॥ ब्रह्मचर्यरतः स्त्रीणां कूजितम्, रुदितम्, गीतम्, हसितम्, स्तनितम्, क्रन्दितं श्रोत्रग्राह्यं - कर्णाभ्यां गृहीतुं योग्यं विशेषेण वर्जयेत्, न श्रृणुयादित्यर्थः ॥ ५ ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy