________________
षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनम् १६]
[२५९ ___स निर्ग्रन्थो भवेत्, यो विभूषानुपाती नो भवेत् । विभूषां - शरीरशोभामनुवर्तयितुमनुपतितुं विधातुं शीलमस्येति विभूषानुवर्ती, विभूषानुपाती वा,शरीरशोभाकरणोपकरणैः स्नानदन्तधावनादिभिः संस्कारकर्ता न भवेत्, सा साधुर्ब्रह्मचारी । इति श्रुत्वा तदा शिष्यः प्राह-तत्कथमिति चेत्तदाचार्य आह-खलु निश्चयेन निर्ग्रन्थः साधुर्विभूषानुवर्तिकः- शरीरशोभाकारी, विभूषितशरीर:- स्नानाद्यलङ्कृततनुः पुमान् स्त्रीजनस्याभिलषणीयः- कामाय वाञ्छनीयो भवेत् । ततो 'णं' ततः पश्चात् स्त्रीजनेनाभिलषणीयस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्माच्छङ्कादिदोषाणां प्रादुर्भावात्खलु निश्चयेन निर्ग्रन्थो विभूषानुवर्तिको न भवेत्॥९॥इति नवमं ब्रह्मचर्यसमाधिस्थानम् । इति नवमी वाटिका।
अथ दशमी कथ्यते -
नो निग्गंथे सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खलुसहरूवरसगंधफासाणुवाइयस्स बंभयारिस्स बंभचेरेसंकावा कंखावा वितिगिच्छा वा समुप्पज्जिज्जा,भेयं वालभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा । तम्हा खलु नो निग्गंथे सद्दरूवरसगंधफासाणुवाई भवेज्जा [ दसमे बम्भचेरसमाहिठाणे हवई । ॥१०॥
सनिर्ग्रन्थो भवेत्, स इति कः ? यः शब्दरूपरसगन्धस्पर्शानुपाती न भवेत् ।शब्दश्च रूपञ्च रसश्च गन्धश्च स्पर्शश्च शब्दरूपरसगन्धस्पर्शाः, तान् अनुपतत्यनुपातीति शब्दरूपरसगन्धस्पर्शानुपाती,शब्दो-मन्मनादिः, रूपं-स्त्रीसम्बन्धिलावण्यम्, रसो-मधुरादिः, गन्धचन्दनागरुकस्तूरिकादिः, स्पर्श:-कोमलस्त्वक्सौख्यदः, एषां भोक्ता साधुर्न स्यात्, इत्युक्ते शिष्यः पृच्छति, तत्कथमिति चेदाचार्य आह-निर्गन्थस्य खलु निश्चयेन शब्दरूपरसगन्धस्पर्शानुपातिब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्माच्छङ्कादिदोषाणां प्रादुर्भावात्खलु निश्चयेन निर्ग्रन्थः शब्दरूपरसगन्धस्पर्शानुपाती विषयासेवी न भवेत् ॥१०॥ एतद्दशमं ब्रह्मचर्यसमाधिस्थानम् १० । अथात्र सर्वेषां दशानां समाधिस्था-नानां सङ्ग्रहश्लोकान् पद्यरूपानाह-तं जहा
जं विवित्तमणाइन्नं, रहियं थीजणेण य ।
बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ॥१॥ साधुब्रह्मचारी तमालयं - तमुपाश्रयं निषेवते । तु पादपूरणे, तं कं ? य आलयो विविक्त एकान्तभूतः, तत्रत्यवास्तव्यस्त्रीजनेन, चशब्दात्पशुपण्डकैरपिरहितः, पण्डकशब्देन नपुंसक उच्यते।कालाकालविभागागतसाध्वीजनं श्राद्धीजनंचाश्रित्य विविक्तत्वंज्ञेयम्।यदुक्तं