________________
२५८]
[उत्तराध्ययनसूत्रे भेयं वा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा । तम्हा खलु नो निग्गंथे पणीयं आहारं आहारेज्जा ॥७॥ __स निर्ग्रन्थो भवेत्, यः प्रणीतं-गलघृतादिबिन्दुकम् उपलक्षणत्वादन्यदपि सरसमत्यन्तधातुवृद्धिकरं कामोद्दीपकमाहारं प्रत्याहर्ता न भवेत् । यः सरसाहारकृन्न भवेत् स निर्ग्रन्थः । तदा शिष्यः पृच्छति-तत्कथमिति चेत्तदा आचार्य आह-हे शिष्य ! निर्ग्रन्थस्य साधोः खलु निश्चयेन प्रणीतं सरसमाहारं भुञ्जानस्य ब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्मादित्यादिदोषप्रादुर्भावानिर्ग्रन्थः प्रणीताहारकारी न भवेत् ॥ ७ ॥ इति सप्तमं ब्रह्मचर्यसमाधिस्थानम् । इति सप्तमी वाटिका ॥७॥
अथाष्टमीं प्राह
नो निग्गंथे अइमायाए पाणभोअणं आहारेत्ता हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाह-निग्गंथस्स खलु अइमायाए पाणभोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वां लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हवेज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा । तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणं भुंज्जिज्जा ॥८॥
स निर्ग्रन्थो भवेत्, योऽतिमात्रया द्वात्रिंशत्कवलाः पुरुषाणामाहारस्य मात्रा, ततोऽधिकाहारं पानकं - दाक्षाशर्करादेर्जलमाहर्ता न भवेत् । यतो ह्यागमे पुरुषस्य द्वात्रिंशत्कवलैराहारमात्रा, स्त्रियस्त्वष्टाविंशतिकवलैराहारमात्रा, नपुंसकस्य चतुर्विंशतिकवलैराहारमात्रोतास्ति । ब्रह्मचारिणो ह्यधिकाहारपानीयं न करणीयमिति श्रुत्वा शिष्यः पृच्छति । तत्कथमिति चेत्तदाचार्यः प्राह-निर्ग्रन्थस्य खल्वतिमात्रमाहारपानीयमाहर्तुर्मात्राधिकमाहारकर्तुर्ब्रह्मचारिणो ब्रह्मचर्ये शङ्कादयो दोषा उत्पद्यन्ते । तस्माच्छङ्कादिदोषाणां प्रादुर्भावात् खलु निश्चयेन निम्रन्थोऽतिमात्रया पानीयं भोजनं वा न भुञ्जेत् ॥८॥ इत्यष्टमं ब्रह्मचर्यसमाधिस्थानम् । इत्यष्टमी वाटिका ॥८॥
अथ नवम्युच्यते -
नो विभूसाणुवाई हवइ, से निग्गंथे, तं कहमिति चेत् आयरियाहनिग्गंथे खलु विभूसावत्तिए विभूसियसरीरे इत्थीजणस्स अहिलसणिज्जे हवइ, तओ णं तस्स इत्थीजणेणं अहिलसिज्जमाणस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालीयं वा रोगायंकं हवेज्जा, केवलिपनत्ताओ वा धम्माओ भंसिज्जा । तम्हा खलु नो निग्गंथे विभूसियवत्तिए भवेज्जा ॥९॥